पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४
काव्यमाला

पुत्रीणां बत धन्यासि निजां कथय मे कथाम् । देव्या पृष्टेति सा स्वैरं ब्राह्मणी प्राह निर्वृता ॥ १४ ॥ कृच्छ्रेण महता देवी दारिद्यं रक्षितं मया । न हि धर्तुं समायाति शीलं प्रोषितयोषिताम् ॥ १५ ॥ उत्तरस्यां दिशि पुरा जयदत्तोऽभवन्नुपः । देवदत्ताभिधस्तस्य पुत्रो दुश्चरितः कुले ॥ १६ ॥ स राजा पवनालोलकदलीदलचञ्चलाम् । नृपश्रियमिति ज्ञात्वा वणिजां चाक्षयां श्रियम् ॥ १७ ॥ महाधनवणिक्पुत्र्या पुत्रस्योद्वाहमादधे । धनकाञ्चनरत्नौघैः प्राप व्याकोशकोशताम् ॥ १८ ॥ ततः कालेन भूपाले दिवं याते तदात्मजः । स गोत्रशत्रुविजितो जीवशेषो ययौ निशि ॥ १९ ॥ स मात्रा प्रेरितो दुःखाद्गच्छ श्वशुरमन्दिरम् । महाधनः स हि वणिक्त्वां ध्रुवं पूरयिष्यति ॥ २० ॥ इति मातूर्गिरा गत्वा पुरं पाटलिपुत्रकम् । श्वशुरावसथं प्राप्य न विवेश ह्रिया नतः ॥ २१ ॥ स पान्थसत्रशालायां शयानस्तदृहान्तिके | निजजायां ददर्शाथ निशि केनापि सङ्गताम् ॥ २२ ॥ तां चौर्यसुरताकम्पकणन्सुस्वरमेस्वलाम् दृष्ट्वापि दुर्गतिं ध्यायन्न चकम्पे चुकोप वा ॥ २३ ॥ ततः सो रतिसंमर्दभ्रष्टं हेमविभूषणम् । नाज्ञासीन्मणिताटङ्कं रागान्धः को हि पश्यति ॥ २४ ॥ तद्वज्रमणिसंछन्नं प्राप्य कर्णविभूषणम्

ययौ लक्ष्मीं कृतारम्भो राजपुत्रोऽप्यलक्षितः ॥ २५ ॥


पत्या विहीना था रेवी रित्य र ख. २. देवदास ३. 'जयद' ख. व खिया संपर राजा' च ५. 'येन काञ्चनरलायैः स. ६. "धनम् ख. स्तिसमोहमष्ट ख.