पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२
काव्यमाला ।

राजपुत्रमथायान्तं दृष्ट्वा श्रुत्वा च तद्वचः ।
हत्वा यथोक्तमकरोत्सूदः समययन्त्रितः ॥ ४०६ ॥
तन्मांसभोजनं राजा भुक्त्वा स्वैरं वधूसखः |
प्रातर्विदितवृत्तान्तः पपात विलपन्भुवि ॥ ४०७ ॥
सुपुत्रं निहतं ज्ञात्वा हलभूतिं विलोक्य च ।
शुभं शुभकृतादेव सस्मारेति स तद्गिरः ॥ ४०८ ॥
हलभूतिं नृपपदे धृत्वानु शयतापितः ।
ब्राह्मणेभ्यो महादानं वितीर्य यमुनातटे ॥ ४०९ ।।
निकृत्तनिजमांसेन हुत्वा वह्निं ससंभ्रमः ।
सभार्यः प्रययौ स्वर्ग सत्त्वनिर्धूतकल्मषः ।। ४१० ॥
शुभं शुभकृतादेव हलभूतिरवाप्तवान् ।
न हि कश्चिच्छुभकृतस्तव राजा चलिष्यति ॥ ४१२ ॥
इति हलभूत्याख्यायिका ॥ १५ ॥
यौगन्धरायणवचो निशम्येति जनाधिपः ।
एवमेतदिति प्राह विस्मयाविष्टचेतनः ॥ ४.१२ ॥
ततः प्रियतमाकेलिविलासरसिको नृपः ।
परित्यक्त इवाभ्येत्य रराज विजयश्रिया ॥ ४१.३ ॥
कौशाम्बीमथ सौधसङ्गितरुणीं नेत्रांशुनीलोत्पल-
स्रग्दामाभरणाधिवाससुभगः कान्तासहायो नृपः ।
आकर्णायतकामकार्तुकलतार्केकारतारैर्मुहुः
प्रत्यग्रोत्सवलोलपौरललनाकाञ्चीरवैः पूरिताम् ॥ ४१४ ॥
इति क्षेमेन्द्रविरचिते बृहत्कथासारे लावानकनामा तृतीयो लम्बकः समाप्तः ।
      -------------
नरवाहनजन्मनामा चतुर्थों लम्बकः ।
       प्रथमो गुच्छः ।
ललाटलोचनं पायात्प्रदीप्तं त्रिपुरद्विषः
कुमाररक्षासिन्दूरं वितरन्किरणैरिव ॥ १॥


पाक्ताहयों भेजे' खान समेशिवताका ख.