अत्रोत्पादकसमानगुणत्वादुत्पाद्यस्योत्पादकभावसंसर्गानुरूपः समालंकारविशेषः छेषश्चास्मिन्गुणः॥
दृष्टः सदसि चेदुप्राश्चन्द्रचन्दनचन्द्रिकाः।
अथ त्वं संगरे सौम्याः शेषकालानलासयः ॥ ४२ ॥
अत्र दृष्टः सदसीति वाक्ये त्वमित्यस्थापकर्षणात् , अथ त्वं संगर इत्यत्र च त्वमित्य- स्थानुवर्तनाद्वाक्ययोः पदविनिमयात्मालंकारः पूर्वार्धे । उत्तरार्धे प्रकृतानेकधर्मसंबन्धा- त्तुल्ययोगिता । उपमेयस्योत्कृष्टगुणत्वसिद्धय उपमानस्य तद्विरुद्धगुणकल्पनात्मकेनालं- कारान्तरेण शबलिता ॥
अपारे खलु संसारे विधिनैकोऽर्जुनः कृतः ।
कीर्त्या निर्मलया भूप त्वया सर्वेऽर्जुनाः कृताः ॥ ४३ ॥
इह श्लेषमूलो व्यतिरेकः ॥
दधीचिबलिकर्णेषु हिमहेमाचलाब्धिषु ।
अदातृत्वमधैर्यं च दृष्टे भवति भासते ॥ ४४ ॥
अत्रापि सैव तथाविधा । यथासंख्यसंकरस्तु विशेषः ।
शासति त्वयि हे राजन्नखण्डावनिमण्डलम् ।
न मनागपि निश्चिन्ते मण्डले शत्रुमित्रयोः ॥ ४५ ॥
इहापि तुल्ययोगिता मित्रशब्दन्छेषोत्यापिता ब्याजस्तुतिश्च ।।
भानुरग्निर्यमो वायं बलिः कर्णोऽथवा शिबिः ।
प्रत्यर्थिनोऽर्थिनश्चेत्थं त्वयि यान्ति विकल्पनाम् ॥ ४६ ॥
इह तु संशय उल्लेखालिङ्गितः ॥
इह ग्लिटपरम्परितं रूपकं मालारूपम् ॥
गगने चन्द्रिकायन्ते हिमायन्ते हिमाचले ।
पृथिव्यां सागरायन्ते भूपाल तव कीर्तयः ॥ १८ ॥
इह मालोपमालिङ्गित उल्लेखः॥
१. कमला लक्ष्मीः, पद्मानि च ।. २. क्षमा भूमिः, श्रान्तिश्च.
३. कुवलयं भूमण्डलम् उत्पलं च.