पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८८
काव्यमाला।

पुरः पुरस्तादरिभूपतीनां भवन्ति भूवल्लभ भस्मशेषाः ।
अनन्तरं ते भृकुटीविटङ्कात्पतन्ति रोषानलविस्फुलिङ्गाः ॥ ३४ ॥

अत्र प्रयोजकातिशयकृतः प्रयोज्यशैघ्र्यातिशयो गम्यः । कार्यकारणपौर्वापर्यविपर्यय- रूपा चेयमतिशयोक्तिः ॥

भुवनत्रितयेऽपि मानवैः परिपूर्णे विबुधैश्च दानवैः ।
न भविष्यति नास्ति नामवन्नृप यस्ते भजते तुलास्पदम् ॥ ३५ ॥

अनोपमानलप्तोपमेति प्रायः । असमाख्यमलंकारान्तरमिति तु वयम् ॥

पीयूपयूषकल्पामल्पामपि ते गिरं निपीतवताम् ।
तोषाय कल्पते नो योषाधरबिम्बमधुरिमोद्रेकः ।। ३६ ॥

अत्र संवन्धेऽप्यसंबन्ध इत्यतिशयोक्तिमेदः । उपमेयोपमानविशेषणाभ्यामल्पत्वोद्रि तत्वाभ्यामल्पयापि सह भूयानपि मधुरिमा साम्यं कर्तु यत्रानीशस्त्र किं वाच्यं भूय- स्पेति वैलक्षण्यात्मा व्यतिरेकश्च ॥

भासयति व्योमस्था जगदखिलं कुमुदिनीर्विकासयति ।
कीर्तिस्तव धरणिगता सगरसुतायासमफलतां नयते ॥ ३७॥

अत्र व्यज्यमानचन्द्रिकारूपकसंकीर्ण उल्लेखध्वनिः ॥

भाग्येन सह रिपूणामुत्तिष्ठसि विष्टरात्क्रुधाविष्टः ।
सहसैव पतसि तेषु क्षितिशासन मृत्युना साकम् ॥ ३८ ॥

'केशैर्वधूनाम्' (२९) इत्यत्र कर्मणः सहोक्तिः । इह तु कर्तुरिति विशेषः ।।

त्वयि पाकशासनसमे शासति सकलं वसुंधरावलयम् ।
विपिने वैरिवधूनां वर्षन्ति विलोचनानि च दिनानि ॥ ३९ ॥

अत्र वर्षवदाचरन्तीत्याचारक्किबन्तेन शेषाच्छ्लेषमूलिका तुल्ययोगिता । रिपुकामिनी- वर्णनविषयत्वेनोपमानोपमेययोर्द्वयोरपि प्रकृतत्वात् ।।

अहितापकरणभेषज नरनाथ भवान्करस्थितो यस्य । तस्य कुतोऽहिमयं स्यादखिलामपि मेदिनी चरतः ॥ ४०॥

अत्र श्लेषनिवेदितस्य सर्पभयाभावस्योपपादकतयोपात्तस्य राजनि मेषजतादात्म्यारो- पस्याप्युपपादकतया स्थितं राजसंबन्धिनि विषदपकरणरूपे धर्मे छेषनिवेवितसर्पतापकरण- तादात्म्यमिति प्रथमचरणे विष्टपरम्परितरूपकं तृतीये तु श्लेष एव ।

कुवलयलक्ष्मी हरते तव कीर्तिस्तत्र किं चित्रम् ।
यस्मान्निदानमस्या लोकनमस्याङ्घ्रिपङ्कजो हि भवान् ॥ ४१ ॥