पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८३
प्राणाभरणम् ।


मालादीपकमेतदिति प्राभ्वः । दीपकस्य सादृश्यमूलकतानियमान्न मालादीपकमपि त्वेकावलीमेद इति तु वयम् ॥

अम्लायन्यदरातिकैरवकुलान्यम्लासिषुः सत्वरं
दैन्यध्वान्तकदम्बकानि परितो नेशुस्तमां तामसाः ।
सन्मार्गाः प्रसरन्ति साधुनलिनान्युल्लासमातन्वते
तन्मन्ये भवतः प्रतापतपनो देव प्रभातोन्मुखः ॥ १२ ॥

इह रूपकनिष्पादितलिङ्गकमनुमानं निमित्तविरहादुत्प्रेक्षाया अयोगाद्वाचकमनुमि- तिपरम् ॥

[१]उत्क्षिप्ताः कबरीमरं विवलिताः पार्श्वद्वयं न्यक्कृताः
पादाम्भोजयुगं रुषा परिहृता दूरेण चेलाञ्चलम् ।
गृह्णन्ति खरया भवातिभटक्ष्मापालवामभ्रूवां
यान्तीनां गहनेषु कण्टकचिताः के के न भूमीरुहाः ॥ १३ ॥

अत्र कण्टकचितत्वेन कबरीग्रहणादेः संकीर्णत्वात्कार्यधर्मान्तरा संकीर्णशुद्धसाधार-. ण्येन विशेषणसाम्यमालम्व्य प्रवृत्ता समासोक्तिः ॥

दृष्टिः संभृतमङ्गला बुधमयी देव त्वदीया सभा
काव्यस्याश्रयभूतमास्यम[२]रुणाधारोऽपरः सुन्दरः ।
क्रोधस्तेऽश[३]निभूदारविर्ष[४]ण स्वान्तं तु सोमास्पदं
राजन्नूनमनूनविक्रम भवान्सर्वग्रहालम्बनम् ॥ १४ ॥

अत्रोप्रेक्ष्यमाणसर्वग्रहालम्बनत्वस्य समानाधिकरणेषु धर्मेषु तत्तद्ग्राहात्रिताकत्वेषु विशेषणीभूतैस्तत्तद्ग्रहैः सह विषयस्य राज्ञो कल्याणाश्रयत्वादिषु विशेषणानां कल्याणादीनां श्रेषेणाभेदसंपादनद्वारा तादृशधर्मसाधारणतासंपत्तौ तनिमित्तकोत्प्रेक्षासिद्धिः ।। <poem> सृष्टः सृष्टिमुवा पुरा किल परित्रातुं जगन्मण्डलं त्वं [५]चण्डातपनिर्दयं तपसि यज्वालाजटालैः करैः । संरम्भारुणलोचनो रणभुवि प्रस्थातुकामोऽधुना जानीमो भवता न हन्त विदितः श्रीकामरूपेश्वरः ॥१५॥



  १. उदाहृतोऽयं श्लोको रसगडाघरे प्रथमानने. 'उत्क्षिप्ता उन्नतीकृताः। विवलिता
वक्रीकृताः । न्यक्कृता अधरीकृताः । प्रहणे हेतुगर्भ विशेषणं कण्टकचिता इति । कण्टक-
व्याप्ता’ इत्यर्थः' इति तत्र टीका.। २. अरुणः सूर्यः। ३. अशानिर्जज्रम्, ग्रहणनायां तु
शनिरित्येव.। ४. विषणा बुधिः, विषणो गुरु॥ ५.हे सूर्य ॥