पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीराघवचैतन्यविरचितं

महागणपतिस्तोत्रम् ।




तच्छिष्यकृतया टिप्पण्या समेतम् ।

योगं योगविदां विधूतविविधव्यासङ्गशुद्धाशय-
प्रादुर्भूतसुधारसप्रसृमरध्यानास्पदाध्यासिनाम् ।
आनन्दप्ठवमानबोधमधुरामोदच्छटामेदुरं
तं भूमानमुपासहे परिणतं दन्तावलास्यात्मना ॥१॥

 दन्तावलो गजस्तस्यैवायं मुखं यस्य स गजाननस्तदात्मना तद्रूपैण परिणतं तं भूमानं पर ब्रह्मोपास्महे । कीदृशं तम् । आनन्दो ब्रह्मानन्दस्तेन प्लक्मानः । लक्षणया पूर्णानन्दामित इत्यर्थः । ईदृशो यो बोधस्तेन चिदानन्दमयं स्वरूपमुकम् । तद्विवर्तरूपः प्रपञ्च एव मधुरामोदच्छटात्वेन रूपितस्तेन मेदुरम् । पुनः कीदृशम् । योगविदां योगम् । कीदृशां योगविदाम् । विधूतो विविधो व्यासङ्गो यैरत एव शुद्धो य आशयस्तस्मिन्प्रा-- दुर्भूतः सुधारतः शान्तिसुखं येषां तेच ते च ते प्रसृमरं प्रसारि ध्यानं यस्मिनीदृशं यदास्पदं कंदरादि तदध्यासिनश्च तेषाम् ॥

तारश्रीपरशक्तिकामवसुधारूपानुगं यं विदु-
स्तस्मै स्तात्प्रणतिर्गणाधिपतये यो रागिणाभ्यर्थ्यते ।
आमध्य प्रथमं वरेति वरदेत्यार्तेन सर्वं जनं
खामिन्मे वशमानयेति सततं स्वाहादिभिः पूजितः ॥ २ ॥

१. कार्यारम्भे विघ्नविधाताय देवतासरणं कर्तव्यमिति शिष्टाचारमनुसरद्भिरस्माभिरपि

काव्यमालाप्रारम्भे देवतास्तुतिरूपाण्येव कानिचित्काव्यानि समुद्धृतानीति ज्ञातव्यं सुधीभिः. २. राघवचैतन्यनामा कश्चिन्महाकविः शार्ङ्गधरात्प्राचीन आसीत्, यतः शार्ङ्ग- धरपद्धतिमध्ये राघवचेतन्यनाम्ना केचिच्छ्लोकाः समुद्धृताः सन्ति, शार्ङ्गधरस्य पितामहो राधवदेवनामा हम्मीरचौहाणसभायामासीत्, हम्मीरस्तु १२९५ मितेरिक्त संवत्सरे मृतः, राघवदेवस्यैव संन्यासग्रहणानन्तरं राघवचैतन्य इति नाम जातमिति माति ।.