पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
काव्यमाला।

  
विधवा तरुणी सघना वाञ्छिति दिव्यं भवद्विधं रमणम् ।
धूर्ती जडमित्युक्त्वा सर्वस्वं तस्य भक्षयति ॥ २४ ॥

प्रत्यहवेतनयुक्ताः कर्मसु ये कारुशिल्पिनो धूर्ताः।
विलसन्ति कर्मविघ्नैर्विज्ञेयाः कालचौरास्ते ॥ २५ ॥

अक्षव्याजैर्विविधैर्गणनाहस्तादिलाधवैर्निपुणाः ।
धूर्ताश्चरन्ति गूढं प्रसिद्धकितवा विदेशेषु ॥ २६ ॥

भोजनमात्रोत्पत्तिर्बहुव्ययो द्यूतमद्यवेश्याभिः ।
विज्ञेयो गृहचौरो बन्धुजनो वेश्मदासो वा ॥ २७॥

कृतकं शास्त्रमसत्यं साक्षादृष्टश्च केन परलोकः ।
इति वदति यः स शङ्क्यो निरङ्कुशो मत्तमातङ्गः ॥ २८ ॥

बहुलाभलुब्धमनसां हरन्ति ये दुःसहेन लाभेन ।
ऋणधनमधिकविदग्धा विज्ञेया लाभचोरास्ते ॥ २९ ॥

अधिकरणाम्बुधिमध्ये ज्वलन्ति वडवामयः सततभक्षाः |
जनधनधनमनसो ये भट्टाख्या न्यायचोरास्ते ॥ ३० ॥

विभवाम्भोरुहमधुपा दुःसहविपदनिलवेगविमुखा ये ।
सुहृदस्ते सुखचौराश्चरन्ति लक्ष्मीलताहताः ॥ ३१ ॥

यद्यत्किंचिदपूर्व परिचरितं कल्पनादसंबद्धम् ।
वर्णयति हर्षकारी बहुवचनः कर्णचौरीऽसौ ॥ ३२ ॥

दोषेषु गुणस्तुतिभिः श्रद्धामुत्पाद्य चतुरवचना ये ।
कुर्वन्त्यभिनवसृष्टिं स्थितिचौरास्ते निराचाराः ॥ ३३ ॥

आत्मगुणख्यातिपराः परगुणमाच्छाद्य विपुलयत्नेन ।
प्रभवन्ति परमधूर्ता गुणचौरास्ते विमूढहृदयेषु ॥ ३४ ॥

वल्लमतामुपयाताः परवाल्लभ्य विचित्रपैशुन्यैः ।
ये नाशयन्ति धूर्ता मात्सर्याद्धृत्तिचौरास्ते ॥ ३५ ॥

शमदमभक्तिविहीनस्तीब्रब्रतदुर्ग्रहप्रस्तः ।
प्रभिभवति प्रतिपत्त्या साधुजनं. कीर्तिचौरोऽसौ ॥ ३६ ॥