पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८ सर्गः]
६७
कलाविलासः।

  
सोऽवददवनिपतीनां जयिनां बहुदानधर्मयज्ञानाम् ।
चरता मया नृलोके सुरपतियोग्याः श्रियो दृष्टाः ॥ १६ ॥

ते तु त्या स्पर्धन्ते विभवैर्वरुणं धनाधिनाथं च ।
शतमखसंज्ञामसकृद्बहुतरयज्ञा हसन्त्येव ।। १७ ॥

श्रुत्वा तन्मुनिवचनं जातद्वेषः शतक्रतुः कोपात् ।
हर्तुं धनं पिशाचान्विससर्ज भुवं नरेन्द्राणाम् ॥ १८ ॥

ते गीतनाममन्त्राः सुरपतिदिष्टाः पिशाचसंघाताः ।
हर्तुं सकलनृपाणां धनमखिलं भूतलं प्रययुः ॥ १९ ॥

मायादासः प्रथमं डम्बरदासश्च वज्रदासश्च ।
क्षयदासलुण्ठदासौ खरहरदासः प्रसिद्धदासश्च ॥ २० ॥

वाडवदासश्चाष्टौ ते गत्या मर्त्यलोकमतिभयदाः।
विवृतास्वघोरकुहरा गायनसृष्टिं ससर्जुरतिविकटाम् ॥ २१ ॥

थैरेतैर्हृतविभवा दिशि दिशि हृतसकललोकसर्वस्वाः ।
यज्ञादिषु भूपतयो जाताः शिथिलोद्यमाः सर्वे ॥ २२॥

एतेऽपि कर्णविवरैः प्रविश्य गीतच्छलेन भूपानाम् ।
सहसा हरन्ति हृदयं कर्णपिशाचा महाघोराः ॥ २३ ॥

तस्मादेषां राष्ट्रे न ददाति विकारिणां प्रवेशं यः ।
तस्य सकलार्थसंपद्यज्ञवत् भूमिरा[१]धीना ॥ २४ ॥

नटनर्तकचक्रचराः कुशीलवाश्चारणा विटाश्चैव ।
ऐश्वर्यशालिशलमाश्चरन्ति तेभ्यः श्रियं रक्षेत् ॥ २५ ॥

गायनसंघस्यैक्यादुत्तिष्ठति गीतनिःस्वनः सुमहान् ।
अस्थाने दचाया लक्ष्म्या इव संभ्रमाक्रन्दः ॥ २६ ॥

इति महाकविधीक्षेमेन्द्रविरचिते कलाविलासे गायनवर्णनं नाम सप्तमः सर्गः ।

अष्टमः सर्गः।

तत्रापि हेमकारा हरणकलायोगिनः पृथुध्यानाः।
ये धाम्नि बहुललक्ष्म्याः शून्यत्वं दर्शयन्त्येव ॥१॥


 १. आ समन्तादधीना