अथ तां तथैव राजाश्वास्य विदर्भेषु भूभुजं जित्वा ।
बन्धनमुक्तेनास्याश्चोरेण समागमं चक्रे ॥ ३८ ॥ .
इत्येवं बहुहृदया बहुजिह्वा बहुकराश्च बहुमायाः ।
तत्त्वेन सत्यरहिताः को जानाति स्फुटं वेश्याः ॥ ३९ ॥
वर्णनदयितः कश्चिद्धनदयितो दासकर्मदयितोऽन्यः ।
रक्षादयित्तश्चान्यो वेश्यानां नर्मदयितोऽन्यः ॥ ४० ॥
इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे वेश्यावृत्तं नाम चतुर्थः सर्गः ।
षष्टमः सर्गः।
मोहो नाम जनानां सर्वहरो हरति बुद्धिमेवादौ ।
गूढतरः स च निवसति [१]कायस्थानां मुखे च लेखे च ॥ १ ॥
चन्द्रकला इव पूर्णा निष्पन्ना सस्यसंपत्तिः ।
प्रस्ता क्षणेन दृष्टा निःशेषा दिविर[२]राहुकलयैव ॥ २॥
ज्ञाताः संसारकला योगिभिरपयातसंमोहैः ।
न ज्ञाता दिविरकला केनापि बहुप्रयत्नेन ॥ ३ ॥
कूटकलाशतशिबिरैर्जनधनविवरैः क्षयक्षपातिमिरैः ।
दिविरैरेव समस्ता प्रस्ता जनता न कालेन ॥ ४ ॥
एते हि कालपुरुषाः पृथुदण्डनिपातहतलोकाः ।
गणनागणनपिशाचाश्चरन्ति [३]भूर्जध्वजा लोके ॥ ५॥
१. कायस्थपदं राज्याधिकारिमात्रोपलक्षकम् । राज्याधिकारिणो हि प्रायः प्रजाः पी-
यन्ति, कायस्थाश्च विशेषेण। तथा हि याज्ञवल्क्यमुनिनाप्यभाणि-'चाटतस्करदुर्वृ-
त्तमहासाहसिकाअदिभिः । पीज्यमानाः प्रजा रक्षेत्कायस्थैश्च विशेषतः ॥' (१ । ३३६).
कायस्थः 'कायय' इति प्रसिद्धो जातिविशेषः, २. दिविर इति कायस्थस्यैव संज्ञान्त-
रम्, 'विना मद्यं विना मांसं परखरहणं विना । विना परापकारेण दिविरो दिवि रो-
दिति ॥' इति लक्ष्यान्तरं च. ३. पूर्वकाले दक्षिणदेशेषु तालपत्रे, , उत्तरदेशेषु च भू-
र्जपन्ने, राज्यव्यवहारमायव्ययादि च लिखन्ति स कायस्थाः. अत एव भूर्जथ्यजा.
इति रूपकम्. कालपुरुषहस्तेषु च ध्वजैर्भाव्यम्,