गूढोपवननिकुञ्ज न्यस्तं सा वल्लभं ससंकेतम् ।
संचिन्त्य चिरं स्वपतिं विषमिव संमूर्छिता मेने ॥ ५२ ॥
निद्रामुद्रितनयने प्रणयश्रान्ते समुद्रदत्ते सा ।
उत्थाय रचितवेषा शनकैर्गमनोन्मुखी तस्थौ ॥ ५३ ॥
चौरः क्षणे च तस्मिन्मधुमत्तजन प्रविश्य तद्भवनम् ।
गमनोत्सुकामपश्यन्मुखराभरणामलक्ष्यस्ताम् ॥ ५४ ॥
अत्रान्तरे शशाङ्कः शनकैः सुरराजवल्लभां ककुभम् ।
चकित इवाशु चकम्पे मीलिततारां समालिङ्ग्य ॥ ५५ ॥
संकोचितकमलायाः कुमुदविजृम्भाविराजमानायाः ।
प्रससार तुहिनकिरणो यामिन्याः कपटहास इव ॥ ५६ ॥
रविपरितापश्रान्तां वीक्ष्य दिवं प्रसरदिन्दुसानन्दाम् ।
जहसुरिव कुमुदवृन्दैरलिकुलहुंकारनिर्भरा वाप्यः ॥ ५७ ॥
जग्राह रजनिरमणी शशिकरहृततिमिरकञ्चुकावरणा ।
लज्जान्वितेव पुरतः कुमुदामोदाकुलालिपटलपटम् ॥ ५८ ॥
सुसजनेऽथ निशाधे चन्द्रालोके च विघुलतां याते ।
तमसीव निर्विशङ्का सा शनकैरुपवनं प्रययौ ॥ ५९ ॥
अथ सा विवेश विवशा विषमशरप्लोपिता निजोपवनम् ।
छन्नं भूषणलोभादनुयाता विस्मितेन चौरेण ॥ ६० ॥
तत्र ददर्श विभूषितमुज्ज्वलललितांशुकं लसत्कुसुमम् ।
शङ्काजनकं विपिने पक्षिभिरुपलक्षितं दयितम् ॥ ६१ ॥
हृदयदयितावियोगज्वलनज्वालावलीतप्तम् ।
दिङ्मुखविलसितरुचिना चन्द्रेण करानलैर्दिग्धम् ॥ ६२ ॥
चिरसंकेवस्थित्या मुक्ताशं प्रियतमापुनर्मिलने ।
वृक्षालम्बितवल्लीवलयालम्बेन विगलितप्राणम् ॥ ६३ ॥
तं दृष्दैव विलीना विलपन्ती व्यसनशोकसंत्रासैः ।
निपपात वल्लरीव क्कणदसिवलयाकुला तन्वी ॥ ६४ ॥
पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/६१
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
काव्यमाला ।
