पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३ सर्गः]
५३
कलाविलासः।

सा तेन चपलनयना सहसा मुषितेव हारितविचारा ।
अभवदशक्ता नितरां संवरणे स्मरविकारस्य ॥ ३९ ॥

शीलं पालय चपले मा पातय निम्नगेव कुलकूलम् ।
इति तामवददिवोच्चैः कम्पाकुलमुखरमेखला सुचिरम् ॥ ४० ॥

सा कृत्वा विदितकयां रहसि सखीमानिनाय तं तरुणम् ।
चलितं हि कामिनीनां धतुं शक्नोति कश्चित्तम् ॥४१॥

काम कामविकासैः सुरतविलासैः सुनर्मपरिहासैः ।
सहजप्रेमनिवासैर्मुमुदे सा खैरिणी तेन ॥ १२ ॥

अथ कृतनिजधनकृत्यस्त्वरितं दयिताविलोकनोत्कण्ठः ।
अविशत्समुद्रदत्तः श्वशुरावासं महारम्भः ॥ ४३ ॥

विपुलमहोत्सवलीलाव्यग्रजनैर्भोगसंपदां निचयैः ।
अतिवाह्य दिनं दयितासहितः शय्यागृहं स ययौ ॥ ४४ ॥

विरचितवरतरशयने बद्धविताने मनोरमस्थाने ।
जृम्भितसौरभधूपे सुरगृहरूपे प्रदीप्तमणिदीपे ॥ ४५ ॥

तत्र स मधुमदविलुलितलोचनकमलां प्रियां समालिङ्ग्य ।
मदगज इव नवनलिनीं भेजे रतिलालसः शय्याम् ॥ ४६॥

सापि हृदयान्तरस्थितपरपुरुषध्यानबद्धलक्षैव ।
तस्थौ निमीलिताक्षी ध्यानपरा योगिनीव चिरम् ॥ ४७ ॥

आलिङ्गनपरिचुम्बननीविविमोक्षेषु बहुतरोच्छ्वासा ।
पत्यौ संकुचिताङ्गी ससार तमेव शीलहरम् ॥ ४८॥

प्रणयकुपितेति मत्वा मुग्धपतिस्तां समुंद्रदत्तोऽपि ।
प्रणिपत्य चाटुकारैः किमपि ययाचे प्रसादाय ॥ ४९ ॥

परपुरुषरागिणीनां विमुखीनां प्रणयकामवामानाम् ।
पुरुपपशवो विमूढा रज्यन्ते योपितामधिकम् ॥ ५० ॥

किं क्रियते कामोऽयं परगतकामः स्वतन्त्रकामश्च ।
धनशतरक्तायामपि संध्यायां भास्करो रागी ॥ ५१ ॥