तस्माल्लोभसमुत्था कपटकला कुटिलवर्तिनी माया ।
लुब्धहृदयेषु निवसति नालुब्धो वञ्चनां कुरुते ॥ ८९ ॥
इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे लोभवर्णनं नाम द्वितीयः सर्भः।
तृतीयः सर्गः ।
कामः कमनीयतया किमपि निकामं करोति संमोहम् ।
विषमिव विषमM सहसा मधुरतया जीवनं हरति ॥१॥
एते हि कामकलिताः परिमललीनालिवलयहुंकारैः ।
सूचितदानाः करिणो बध्यन्ते क्षिप्रसबलाभिः ॥ २ ॥
पादाघातशितानुशघटनानिगडादिसंरोधम् ।
विषयमुषितः करीन्द्रः किं न स्मरवञ्चितः सहते ॥ ३॥
दीर्घव्यसननिरुद्धो भ्रूभङ्गज्ञो विधेयतां यातः ।
विषयविवशो मनुष्य केलिशिखण्डीव नृत्यते स्त्रीभिः ॥ ४ ॥
रक्ताकर्षणसक्ता मायाभिर्मोहतिमिररजनीषु ।
नार्यः पिशाचिका इव हरन्ति हृदयानि मुग्धानाम् ॥ ५ ॥
रागिमृगवागुराणां हृदयद्विपबन्धशृङ्खलौघानाम् ।
व्यसननववल्लरीणां स्त्रीणां नहि मुच्यते वशगः ॥ ६ ॥
संसारचित्रमायां [१]शम्बरमायां विचित्तिमायां च ।
यो जानाति जितात्मा सोऽपि न जानाति योषितां मायाम् ॥ ७ ॥
कुसुमसुकुमारदेहा वज्रशिलाकठिनहृदयसद्भावाः ।
जनयन्ति कस्य नान्तर्विचित्रचरिताः स्त्रियो मोहम् ॥ ८॥
अनुरक्तजनविरक्ता नम्रोत्सिक्ता विरक्तरागिण्यः ।
वञ्चकवचनासक्ता नार्यः सद्भावशङ्किन्यः ॥९॥
जातः स एव लोके बहुजनदृष्टा विलासकुटिलाङ्गी ।
धैर्यध्वंसपताका यस्य न पली प्रमुर्गेहे ॥१०॥
विजितस्य मदविकारैः स्त्रीभिर्मूकस्य नष्टसंज्ञस्य ।
गृहधूलिपटलभखिलं वदने निःक्षिप्यते भर्तुः ॥ ११ ॥
१ शम्बरो विचित्तिश्चातीव मायानिपुणो दैत्यौ
- ↑ १