पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
काव्यमाला।

तत्तस्य शौचमतुलं दृष्ट्वा स्मेराननो ब्रह्मा ।
दम्भोऽसीति जगाद पायो हस्ताग्रमाकम्प्य ॥ ८३ ॥

उत्तिष्ठ सकलजलनिधिपरिखावलिमेखलां महीमखिलाम् ।
अवतीर्य भुङ्क्ष्व व भोगान्विबुधैरपि तत्त्वतो न विज्ञातः ॥ ८४ ॥

इत्यादराद्विसृष्टो विधिना संसारसागरगतानाम् ।
कण्ठे शिलां निबध्नन्मर्त्यानामवततार महीम् ।। ८५॥

अथ मर्त्यलोकमेत्य भ्रान्त्वा दम्भो वनानि नगराणि ।
विनिवेश्य गौडविषये निजजयकेतुं जगाम दिशः ॥ ८६ ॥

वचने बाहीकानां व्रतनियमे प्राच्यदाक्षिणात्यानाम् ।
अधिकारे कीराणां दम्भः सर्वत्र गोडानाम् ॥ ८७ ॥

एते दम्भसहायाः प्रतिग्रहश्राद्धसिद्धचूर्णेन ।
कुर्वन्ति ये प्रभाते यतस्ततो भस्मना तिलकम् ॥ ८८॥

तुर्णं सहस्रभागैर्भुवनतले संविभज्य भूतानि ।
मूर्तः सततं निवसति दम्भो वदनेऽधिकरणभट्टानाम् ॥ ८९ ॥

गुरुहृदयमविशदग्रे बालकहृदयं तपस्विहृदयं च ।
कुटिलं नियोगिहृदयं दीक्षितहृदयं स्वयं दम्भः ॥ ९० ॥

तदनु च गणकचिकित्सकसेवकवणिजां सहेमकाराणाम् ।
नटभटगायनवाचकचनचराणां च हृदयानि ॥ ९१ ॥

अंशैः प्रविश्य हृदयं विविधविकारैः समस्तजन्तूनाम् ।
दम्भो विवेश पश्चादन्तरमिह पक्षिवृक्षाणाम् ॥ ९२ ॥

मत्स्यार्थी चरति तपः सुचिरं निःस्पन्द एकपादेन ।
तीर्थेषु बकतपस्वी तेन विहंगागतो दम्भः ॥ ९३ ॥

विपुलजटावल्कलिनः शीतातपवातकर्शिताः सततम् ।
वृक्षा जलार्थिनी यद्दम्भस विजृम्भितं तदपि ॥ ९४ ॥

एवं विचारणीयः सर्वगतः सर्वहृत्सदा दम्भः । .
ज्ञाते तस्मिन्विविधे विफला मायाविनां माया ॥ ९५॥