निजकरमृणालवल्लीवलयविलासी ललास सितकान्तिः ।
गगनतटिनीतटान्ते रजनिकरो राजहंस इव ॥ ३२ ॥
श्यामा शुशुभे शशिना तया मनोभूर्मधूत्सवस्तेन ।
मदमुदितमानसानां तेनापि मृगीशां लीला ॥ ३३ ॥
धूर्ताः समृद्धिसचिवा विच्छायां पद्मिनीं परित्यज्य ।
फुल्लानि विविशुरलयः सानन्दाः कुमुदवृन्दानि ॥ ३४ ॥
[१]ज्योत्स्नाभस्मस्मेरा सुललितशशिशकलपेशलकपाला ।
तारास्थिपटलहारा शुशुभे कापालिकीव निशा ॥ ३५ ॥
तस्मिन्प्रौढनिशाकरकिरणप्रकरप्रकाशिताशेषे ।
निजमणिभवनोद्याने निर्वर्तितभावनासमाधानः ॥ ३६॥
स्फटिकासनोपविष्टः सह शशिना निर्विभागमित्रेण ।
कन्दलिमुख्यैः शिष्यैः परिवारितपादपीठान्तः ॥ ३७ ॥
प्रोवाच मूलदेवो वीक्ष्य 'चिरं सार्थवाहसुतमग्रे।
कुर्वन्दशनमयूखैर्लज्जालीनामिव ज्योत्स्नाम् ॥ ३८ ॥ (विशेषकम्)
शृणु पुत्र वञ्चकानां सकलकलाहृदयसारमतिकुटिलम् ।
ज्ञाते भवन्ति यस्मिन्क्ष[२]णरुचिचपलाः श्रियोऽप्यचलाः ॥ ३९ ॥
एकोऽस्मिन्मवगहने तृणपल्लववलयजालसंच्छन्नः ।
कूपः पतन्ति यस्मिन्मुग्धकुरका निरालम्बे ॥ ४० ॥
सोऽयं निधानकुम्भो दम्भो नाम खभावगम्भीरः ।
कुटिलैः कुहकभुजंगैः संवृतवदनः सितो लोके ॥ ४१ ॥
मायारहस्यमन्त्रश्चिन्तामणिरीप्सितार्थानाम् ।
दम्भः प्रभावकारी धूर्तानां श्रीवशीकरणम् ॥ ४२ ॥
मत्स्यस्येवाप्सु सदा दम्भस्य ज्ञायते गतिः केन ।
नास्य करौ न च पादौ न शिरो दुर्लक्ष्य एवासौ ॥ ४३ ॥
१. 'ज्योत्स्ना भस्मच्छुरणधला बिव्रती तारकास्थीनन्तर्धानस्यसनरसिका रात्रिकापा- दिकीयम् ।द्वीपाद्द्वीपं भ्रमति दधती चन्द्रमुद्राकमाले न्यस्तं सिद्धाज्ञानपरिमलम् xxx xx । इति काव्यप्रकाशोदाहृतं रूपकालांकारोदाहरणपथमनुकरोतीयमार्यां २.xxx