पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
काव्यमाला।

सकलकलानिलयानां धुर्यः श्रीमू[१]लदेवाख्यः ॥ ९ ॥

नानादिग्देशागतधूर्तैरुपजीव्यमानमतिविभवः ।
स प्राप विपुलसंपदमात्मगुणैश्चक्रवर्तीव ॥ १० ॥

भुक्तोत्तरं सहृदयैरा[२]स्थानीसंस्थितं कदाचित्तम् ।
अभ्येत्य [३]सार्थवाहो दत्तमहार्होपहारमणिकनकः ॥ १२ ॥

प्रणतो हिरण्यगुप्तः सहितः पुत्रेण चन्द्रगुप्तेन
प्राप्तासनसत्कारः प्रोवाच मुहू विश्रान्तः ॥ १२ ॥ (युग्मम्)

अतिपरिचयसप्रतिभा तव पुरतो मादृशामियं वाणी ।
प्राम्याङ्गनेव नगरे न तथा प्रागल्भ्यमायाति ॥ १३ ॥

पिहितबृहस्पतिधिषणो रुचिरः प्रज्ञामरीचिनिचयस्ते ।
तीक्ष्णांशोरिव सहजः प्रोषिततिमिराः करोत्याशाः ॥ १४ ॥

आजन्मार्जितबहुविधमणिमौक्तिककनकपूर्णकोषस्य ।
एको ममैष सूनुः संजातः पश्चिमे वयसि ॥ १५ ॥

मोहस्थानं बाल्यं यौवनमपि मदनमानसोन्मादम् ।
अनिलावलोलनलिनीदलजलचपलाश्व वितचयाः ।। १६ ॥

हारिण्यो हरिणदृशः सततं भोगाञ्जमधुकरा धूर्ताः ।
पतिता परम्परैषा दोषाणां मम सुतस्यास्य ॥ १७ ।। (युग्मम्)

धूर्तकरकन्दुकानां वारवधूचरणनूपुरमणीनाम् ।
धनिकगृहोत्पन्नानां मुक्तिनास्त्येव मुग्धानाम् ॥ १८ ॥

अज्ञातदेशकालाश्चपलमुखाः पङ्गयोऽपि सप्लुतयः ।
नवविहगा इव मुग्धा भक्ष्यन्ते धूर्तमार्जारैः ॥ १९ ॥



१. मूलदेवनामा कश्चिदतिप्राचीनः कालशासप्रवर्तक आसीत्, अस्यैष कणीसुतः
कलाङ्करः, मूलभद्रः, एतान्यपि नामान्तराणि सन्ति. सुबन्धुप्रणीतायां वासवत्ताया वास-
वदत्तस्वयंवरवर्णने 'तत्र च केचित्कला*रा इव विजितनगरमण्डनाः' इत्यस्ति त*कायां
'कलाङ्करा इव मूलदेवा 'इव । “कर्णीस्तो मूलदेवो मूलभद्रः कलाङ्कुर इति हारावली ’
इत्यादि वर्तते। कादम्बरीकथायां विन्ध्याटवीवर्णने 'कर्णीसुतकथैव संनिहितविपुकाबला'
इत्याद्यस्ति कथासरित्सागरे च नवाशीतितमे चतुर्विंशोत्तरशततमे च तरङ्गे मूलदेवकथा
बर्तते ।. तत्र च विक्रमादित्यसमायां मूलदेन आसीदित्यादि वर्षितमस्ति .
२. समा. ३.**.