पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
काव्यमाला।

यो लक्ष्मीरमणेऽपि विक्रमगुणस्तत्सर्वमेकत्र चे-
द्रष्टुं वाञ्छसि दृश्यतामयमये देवत्रिलोकीगणिः ॥ ५९ ॥

स ख्यातो जगति त्रिविक्रम इति त्वद्विक्रमा भूरय-
स्तेनैको निहतो बलिर्बलिशतध्वंसी भुजस्तावकः ।
तं वै[१]कुण्ठमवेति को न जगतीं जेतुं त्वकुण्ठो भवा-
नस्त्येवं महदन्तरं तव तथा देवस्य दैत्यद्रुहः ।। ६० ॥
चक्रे यत्र मदोर्जितार्जुनभुजस्तम्भाहतिं [२]भार्गवो
यत्रासीद्दशकण्ठकण्ठविपिनच्छेदी रघूणां पतिः ।
पार्थेनापि जितः स यत्र गिरिजाकान्तः किराताकृति-
र्गीतः पल्लविताद्भुतैरतव न कैस्तत्रापि दोर्विक्रमः ॥ ६१ ॥

राकेन्दोरुदयभ्रमेण मुखतो मुक्त्वा मृणालाङ्कुरं
तान्ति तत्र वहन्ति हन्त विलसद्भृङ्गा स्थाङ्गाङ्गाना:।
किं चोदञ्चितचञ्चुरञ्चति शरच्चन्द्रप्रभा [भ्रान्तितो
हर्षं हन्त] चकोरपङ्किरमलं यत्रोदितं ते यशः ॥ ६२ ॥

पालेयैः स्नपयन्ति कल्पलतिकाः सेकाननेकानथ
श्रीखण्डाम्बुगलज्जलैरविरलैस्तन्वन्ति संतानके ।
सान्द्रेश्चन्द्रमणिद्वैरपि विभो मन्दारवाहीमलं
सिञ्चन्त्यद्य भवप्रतापदहनत्रासेन नाकाङ्मनाः ॥ ६३ ॥

यातं रामविरामविक्लवतया [३]दुष्यन्तविश्रान्तिजः
संतापो विगतो [विलीनमखिलं दुःखं नलाभावजम्] ।
किं चान्यत्वयि देव विभ्रति महासाम्राज्यलक्ष्मीमिमां
शान्तः शांतनवोऽपि कोऽपि विपुलाभोगो वियोगो भुवः ॥६४॥

किंचित्कुङ्भलितैकलोचनपुटं कण्डूं मुहुर्गण्डयो-
र्झम्पाकम्पितकुङ्भले कुरबके निर्वाप्य वन्यद्विपैः ।



१. वै निश्चयेन कुण्ठं जडम्; (पक्षे) वैकण्ठनायकम्, २. विष्णोः. ३, परशुरामा:
४. दुष्यन्तमहीपालवियोगजनितः,