पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६
काव्यमाला

    
भक्तार्तिप्रशमौषधं भवभयप्रध्वंसि दिव्यौषधं
श्रेयःप्राप्तिकरौषधं पिब मनः श्रीकृष्णनामौषधम् ॥ ३० ॥

आश्चर्यमेतद्धि मनुष्यलोके सुधां परित्यज्य विषं पिबन्ति ।
नामानि नारायणगोचराणि त्यक्त्वान्यवाचः कुहकाः पठन्ति ॥ ३१ ॥

लाटीनेत्रपुटीपयोधरघटीरेवातटीदुष्कुटी-
पाटीरद्रुमवर्णनेन कविभिर्मूढैर्दिनं नीयते ।
गोविन्देति जनार्दनेति जगतां नाथेति कृष्णेति च
व्याहारैः समयस्तदेकमनसां पुंसामतिक्रामति ॥ ३२ ॥

अयाच्यमक्रेयमयातयाममपाच्यमाक्षय्यमदुर्भरं मे ।
अस्त्येव पाथेयमितः प्रयाणे श्रीकृष्णनामामृतभागधेयम् ॥ ३३ ॥

यस्य प्रियौ श्रुतधरौ कविलोकगीतौ
मित्रे द्विजन्मपरिवारशिवावमूलाम् ।
तेनाम्बुजाक्षचरणाम्बुजषट्पदेन
राज्ञा कृता स्तुतिरियं कुलशेखरेण ॥ ३४ ॥

इति श्रीकुलशेखरनृपतिविरचिता मुकुन्दमाला समाप्ता ।

पण्डितराजश्रीजगन्नाथविरचिता

सुघालहरी।

उल्लासः फुल्लपङ्केरुहपटलपतन्मत्तपुष्पंधयानां
निस्तारः शोकदावानलविकलहृदां कोकसीमन्तिनीनाम् ।



१. मायाविना, २. लाटदेशस्त्रीणां नेत्रपुटकुचकलशादिवर्णनेन रेवातटस्थितनि-
कुञ्ज्चन्दनादिद्रुमवर्णनेन च मूढानां कवीनां दिनान्यतिक्रामन्ति. लादीयुपलक्षणम् .
३. तैलजवंशोद्भवः पेरमभट्टसूनुरनेकग्रन्थकर्ता पण्डितिराजजगन्नाथो दिल्लीबादशा-
- हस्य शाहजहानसूनोर्दाराशाहाय़् सभायामातीत, यतोऽनेन जगदामरणकाव्ये दारा
- शाहस्येव यशोवर्णनं कृतमस्ति. भामिनीविलाससमाप्तौ च दिल्लीवल्लमपाणद
चतले नीतं नवीनं वयः' इत्युचम्. स च दाराशाहा १६५९ मितसिखसंवत्सरपर्यन्त-
मासीत् . ४. सूर्यस्त्वरूपोऽयं मन्यः. ५. रसगङ्गाधरे प्रयमानन उदाहतोऽयं श्लोकः ,