पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४
काव्यमाला

   
वात्सल्यादभयप्रदानसमयादार्तार्तिनिर्वापणा-
दौदार्यादघशोषणादगणितश्रेयःपदप्रापणात् ।
सेव्यः श्रीपतिरेव सर्वजगतामेकान्ततः साक्षिणः
प्राह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्या ध्रुवः ॥ १६ ॥

नाथे श्रीपुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा
सेव्ये स्वस्य पदस्स दातरि परे नारायणे तिष्ठति ।
यं कंचित्पुरुषाधमं कतिपयग्रामेशमल्पार्थदं
सेवायै मृगयामहे नरमहो मूढा वराका वयम् ॥ १७ ॥

भो लोकाः शृणुत प्रसूतिमरणव्याधेश्चिकित्सामिमां
योगज्ञाः समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः ।
अन्तर्योर्तिरमेयमेकममृतं कृष्णाख्यमापीयतां
यत्पीतं परमौषधं वितनुते निर्वाणमात्यन्तिकम् ॥ १८ ॥

बद्धेनाञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैः
कण्ठेन स्वरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना ।
नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिना-
मस्माकं सरसीरुहाक्ष सततं संपद्यतां जीवितम् ॥ १९ ॥

तत्त्वं ब्रुवाणानि परं परस्मादहो क्षरन्तीव सुधां पदानि ।
आवर्तय प्राञ्जलिरस्मि जिह्वे नामानि नारायणगोचराणि ॥ २० ॥

इदं शरीरं परिणामपेशलं पतत्यवश्यं श्लथसंधि जर्जरम् ।
किमौषधैः क्लिश्यसि मूढ दुर्मते निरामयं कृष्णरसायनं पिब ॥ २१ ॥

श्रीमन्नाम प्रोच्य नारायणाख्यं येन प्राप्ता वाञ्छितं पापिनोऽपि ।
हा नः पूर्वं वाक्प्रवृत्ता न तस्मिंस्तेन प्राप्तं गर्भवासादिदुःखम् ॥ २२ ॥

मा द्राक्षं क्षीणपुण्यान्क्षणमपि भवतो भक्तिहीनान्पदाब्जे
मा श्रौषं श्रव्यबद्धं तव चरितमपास्यान्यदाख्यानजातम् ।


१. 'वात्सल्यात्' इत्यादिश्लोकमारभ्य समाप्तिपर्यन्तमेकोनविंशतिश्लोका मुद्रितपुस्तकंषु
न सन्ति. वात्सल्यादिषु षट्सु प्रह्लादादयः षट् कमेण साक्षिणः,॥