पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४९
 


न तु यथा [१]यशोवर्मदेवस्य

"उत्पतिर्भण्डकुले यदभीष्टं तत्पदं समाकान्तम् ।
भोगास्तथापि दैवात्सकृदपि भोक्तुं न लभ्यन्ते ।।

अत्र ममोत्पत्तिभण्डकुले समीहितपदाक्रमणं च निष्पन्न तथापि दैवा- र्पितप्रियाविप्रयोगाद्भोगा भो क्तुं न लभ्यन्त इत्यभिहिते वसंवेद्यमेव भण्ड- कुलमन्यत्राप्रसिद्धं स्वयमेव निर्दिश्यमानमुत्कर्षविशेषणविरहितकेवलपदो- पादानेन निरर्थकतया निरौचित्यमेव । इक्ष्वाकुकुलस्य तु निर्विशेषणत्व- मुपपद्यत एव । त्रिभुवनप्रसिद्धौचित्य चरित्रत्वात् ।। व्रतौचिलं दर्शयितुमाह---

काच्यार्थः साधुवादाई। सद्व्रतौचित्यगौरवात् ।
संतोपनिर्भरं भक्या करोति जनमानसम् ॥ २९ ।।

काच्यार्थः समुचितव्रतगौरवात्साधुवादयोग्यः संतोषपूर्णं जनमनः करो- ति । भक्तिर्विच्छितिः ॥ कथा मम मुक्तावलीकाव्ये-

'अत्र वल्कलजुपः पलाशिनः पुष्परेणुभरममभूषिताः ।
लोलाभृङ्गवलयाक्षमालिकास्तापसा इव विभान्ति पादपाः ॥'

अत्र तपोवनोचितवतव्यञ्जकवल्कलभसाक्षसूत्रप्रणयिपादपवर्णनायामचे. तनानामपि शमसमयविमलचित्तवृत्तिरौचित्यमुपजनयति ।। न तु यथा दीपकस्य-

'पुण्ये ग्रामे वने वा महति सितपटच्छन्नपालीकपाली-
मादाय न्यायगर्भद्विजहुतहुतभुग्धूमधूम्रोपकण्ठम् ।
द्वार द्वारं प्रवृत्तो वरमुदरदरीपूरणाय क्षुधार्तो
मानी प्राणी सनाथः स पुनरनुदिनं तुल्यकुल्येषु दीनः ॥

अत्र वैराग्यनिरर्गलवर्णनायां भिक्षाकपालीमादाय क्षुरक्षामः कुक्षिपूर- णाय प्रवृत्तो मानी वरं द्वारं द्वारं यष्टिनिविष्टपाणिः परिभ्रान्तो न पुनरनिशं तुल्यकुल्येषु दीन इत्युक्ते सहजप्रशमविमलमानसविश्रान्तिसंतोषमुत्सृज्य



१. द्वितीयपुस्तके श्रीहर्षदेवस्य.