पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४६
काव्यमाला
 


यथा मम मुनिमतमीमांसायाम्---

'योऽभूद्गोपशिशुः पगोदधिशिरश्चयौरः करीपंकप -
स्तस्यैवाध जगत्पते स्वगपते शोर मुसरे हरे।
श्रीवत्साङ्क जडेरितिस्तुतियदैः कर्णौ नुणां पूरितौ
ही कालस्य विपर्ययप्रणायिनी पाकक्रियाश्चर्यभूः ।।

अत्रामर्षाधिपविपमाविष्कारमुमूर्षुणा शिशुपाले नाभिधीयमाने यत्किल गोपाल्यालः पयोदधिशिरश्चौरः करीषंकषोऽभूत्तसयैवाध जगन्नाथादिभिः स्तुतिपदैर्नृणां कर्णौ पूरितौ बत कालन्य विपर्ययकारिणी पाकक्रिया- श्चर्यभूमिरिति । तत्राभूदितिभूतकालेनाथxx रिपोषरनिरमारब्धाविशे- पलक्षणं वाक्यौचित्यं कृतम् ।। राथा या मालवकुवलयस--

[१]च्युतसुमनसः कुन्दाः पुष्पोद्गमैरलसा द्रुमा
मनसि च गिरं गृहन्तीमे किरन्ति न कोकिलाः ।
अथ च सवितुः शीतोलासं लुनन्ति मरीचयो
न च जरठतामालम्बन्ते क्लमोदयदायिनीम् ॥

अत्र शिशुतरवसन्तकान्तोपवननवरसोल्लाससूच्यमानमनसिजोत्कण्ठाव- र्णनायामृतुसंधिसमुचिताः कुन्दाः कुसुमावसानशून्यतनवः, किंशुकाशोकाः कलिकोद्गमभरालसाः, मनसि कोकिलाः फलकृजितान्यनुसंधवति, स्वेर्म- रीचयः शीतोल्लासमय च निवारयन्ति नच संतापदायिनी प्रीदतामा- लम्बन्ते, इत्युक्ते वर्तमानकालपदेष्वेव हृदयसंवादसुन्दरमौचित्यं किम- प्यामोदते ॥ यथा वा भट्टमल्लटस्य-

'मृत्योरास्यमिवाततं धनुरिदं मूर्छद्विषाश्श्चेषवः
शिक्षा सा विजितार्जुना प्रतिलयं सर्वाङ्गलग्ना गतिः ।
अन्तः क्रौर्यमहो शठस्य मधुनो हाहारि गौवं मुखे
व्याघस्यास्य यथा भविष्यति तथा मन्ये वन निर्मृगम् ।।'



१. उदाक्षलोऽयं श्लोको वामनशृतौ समताख्याणप्रकरणे. तस्माद्वामनात्प्राचीनोऽयं कविः ॥