पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४५
औचित्यविचारचर्चा ।


उपादेयैश्चादिभिर्निपातैरुचितपदविनिवेशितैः काव्यस्यार्थसंगतिरसंदिग्धा सत्सहायैरिव भवति ॥ यथा मम मुनिमतमीमांसायाम्-

'सर्वे स्वर्गसुखार्थिनः ऋतुशतैः प्राज्यैर्यजन्ते जडा-
स्तेषां नाकपुरे प्रयाति विपुलः कालः क्षणार्धं च तत् ।
क्षीणे पुण्यधने स्थितिर्न तु यथा वेश्यागृहे कामिनां
तस्मान्मोक्षसुखं समाश्रयत भोः सत्यं च नित्यं च यत् ॥

अत्र स्वर्गसुखस्व वेश्याभोगवदवसानविरसचपलतायां प्रतिपादितायां निश्चलमोक्षसुखस्य निःसंदेह निश्चिता प्रतिपत्तिर्निपात्रपदोपबृंहिता वाक्या- र्थैचित्यं जनयति ॥ न तु यथा [१]श्रीचक्रस्य- 'देवो जानाति सर्वं यदपि च तदपि ब्रूमहे नीतिनिष्ठं सार्धं संघाय जालान्तरधरणिभुजा निर्वृतो बान्धवेन । म्लेच्छानुच्छिन्धि मिन्धि प्रतिदिनमयशो रुन्धि विश्वं यशोभिः सोदन्वन्मेखलायां परिकलय करं किं च विश्वंभरायाम् ॥'

अत्र क्षितिपतिस्तुतिप्रस्तावे 'देवो जानाति सर्वं यदपि च तदपिर इति यदुक्तं तत्र पूर्वापरपदयोरसंबद्धत्वेन निरर्थक एव निरुपयोगश्चकारः प्रततोत्सवबहुजनभोजनपङ्क्तावपरिज्ञातः स्वयमिव मध्ये समुपविष्टः पश्चा- दभिव्यक्तः परं लज्जादुमनौचित्यं प्रतनोति ॥ कालौचित्यं दर्शयितुमाह-

कालौचित्येन यात्येव वाक्यमर्थेन चारुताम् ।
जनावर्जनरम्येण वेषेणेच सतां वपुः ।। २६ ॥

कालकतौचित्ययुक्तेनार्थेन वाक्यं चारुतामेति वेषपरिग्रहेणेव कालयो- ग्येन सतामवसरज्ञानां वपुः ॥



१.मुकाकणभ्राता चक्रपाल इति कविकण्ठाभरणे, स एवायं चक्र इति भाति ।
मुक्ता xxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxx?.