पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४४
कायमाला।


यथा मम मुनिमतमीगांमायाग्-

'आचारं भजते त्यजत्यषि गद वैराग्यमालम्ते
कर्तुं याच्छाति सङ्गगङ्गगलितो्त्तुङ्गाभिमानं तपः ।
देवन्यस्त विपर्ययैः सुखशिखाभ्रष्टः प्रणष्टो जनः
प्रायस्तापविलीनलोद्दसादृशीमायाति कर्मण्यत्वात्॥'

अत्र दुर्योधनस्य घोषयात्रायां गन्धर्वबन्धपराभवभागाभिगानस्य प्रा- ज्यसाम्राज्यमुत्सृज्य तपाप्रयत्नाभिनिविष्टस्य दुर्ग्रहे वर्ण्यमाने यदुक्तं सर्वो जनः सुखभ्रष्टः प्रणष्टविभवः सदानारं भजते, मदं त्यजति, वैराग्यमा- श्रयति, सङ्गभङ्गेन विगलितोतु्xxभिमानम् तपः कर्तुं वान्छति; प्रायो बाहुल्येन तापबिगलितलोहपिण्डशदृशीं कर्मण्यतामायति; अत्रोत्पूर्वतया सोपसर्गस्य तुङ्ग्शब्दस्य स्वभावोजतिर्द्विगुणतामपयाता दुर्मदागिमानार्थौ चित्यमुच्चैः करोति ।। न तु यथा [१]कुमारदासस्य---

'अयि विजहीहि दृढोपगूहनं त्यज नवसंगमभीरु बब्लभम् ।
अरुणकरोद्ग्म एष वर्तते वरतनु संप्रवदन्ति कxटाः ॥'

[२]अत्राभिनवानङ्गसंगमगाढमालिङ्गननिश्चलाङ्गच्छन्नाङ्गनाप्रबोधने सख्या यदुकं बल्लभं मुञ्च प्रभात सध्यायामरुणकिरणोद्गमो वर्तते, कुक्कुटाश्च संप्रवद- न्तीति, तन्न संप्रोपसर्गशून्यशच्या(ब्दा)पूरणमात्रेण निरर्थकत्वदनुचितमेव ।। निपातौचित्यं दर्शयितुमाह-

उचितस्थानविन्यस्तैर्निपातैरर्थसंगतिः ।
उपादेयैर्भवत्येव सचिवैरिव निश्चला ॥ २५ ॥


१. भगवता पतलालमुनिना व्याकरणमहाभाष्ये 'व्यक्तवाचां समुच्चारणे' (१ | ३ | ४८ | ) इति सूत्रन्याख्यायाम "वरतनु संप्रवदन्ति कुक्कुटाः" इत्यस्य श्लोकस्य चतुर्थः पाद उदाहृताः , जानकीहरणकाव्यस कर्ता कुमारदासा। जानकीहरणं कर्तुं रघुवंशे स्थिते सति । कविः कमारदासस्य रावणx यदि क्षमः ॥' इति राजशेकरश्लोकः मारका जानकी xxxxxxxxxxxxxxxx? २.अत्राभिमानवसंगम-’ इति द्वितीयपुस्तकपाठः ॥