पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४०
काव्यमाला।


अत्र महाराजदुतोऽपि सामन्तास्थाने खप्रभुसमुचितगौरवपूजाईमास- नमनासाद्य कार्यवशेन भूमावेवोपविष्टः प्रागल्भ्यगाम्भीर्येणैवं ब्रूते यथा- स्मद्विधानां वसुधातल एवं भुजगपतिभोगस्तम्भप्राग्भारनिष्कम्पे धरासने स्थान युक्तं यस्मादिहैव गेरुरचलचक्रवर्ती समुपविष्टः सप्तमहाब्धयश्च तत्तुल्यतैवास्माकमित्यौचित्यमधिकरणपदसंबद्धमेव ।। न तु यथा परिमलस्य---

'तत्र स्थितं खितिमतां वर देव देवा-
द्भृत्येन ते चकितचितमियन्त्यहानि ।
उत्कम्पिनि स्तनतटे हरिणेक्षणानां
हारान्प्रवर्तयति यत्र भवत्प्रातापः ॥'

अत्र त्वद्भृत्येन मया तन तस्मिन्देशे स्थितं यत्र भवत्प्रतापः कम्पतर- लस्तनतटे हरिणहशां हारान्प्रवर्तयतीति यदुक्तं तेन शौर्यश्ऱङ्गारगुणोत्क- र्पोस्तुतौ सर्वतो दिग्गमनाविच्छिन्नप्रसरः प्रतापः पारिमित्यं प्राप्तः । एकत्र परिच्छिन्ने देशे मया सत्र स्थितं यत्र त्वत्प्रतापतरुणीस्तनतटेपु हारत- रलनं करोत्यन्यदेशे विलक्षणमुपलक्षणम् । सर्वगतश्चेत्प्रतापस्तत्सर्वत्रैव मया स्थितमिति वक्तव्ये तत्रेत्येकदेशाभिधायि पद नोपपाद्यते । दस्यु- मात्रस्याप्येकदेशे जृम्भमाणप्रतापत्वात् । तदत्राधिकरणपदगतमनौचित्यमु- पलभ्यते । तत्र तत्र मया स्थितं यत्र यत्र भवत्प्रताप इत्येव सुत्युचितं युक्तमुक्तम् स्यात् ।। लिङ्गौचित्यं दर्शयितुमाह-

उचितेनैव लिङ्गेन काव्यमायाति भव्यताम् ।
साम्राज्यसूचकेनेव शरीरं शुभलक्ष्मणा ॥ २१ ॥

प्रस्तुतार्थोचितेन लिङ्गेन काव्यं भव्यतामुपयाति, राजलक्षणेनेव शरीरम् ॥ यथा मम ललितरनमालायाम्-

'निद्रा न स्पृशति त्जत्यपि धृतिं घत्ते स्थितिं क्वचि-
द्दोर्घां वेत्ति कथां व्यक्षां न भजते सर्वात्मना निवृतिम् ।