पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३९
औचित्यविचारचचो ।


इत्यनुचितं मुनेर्लोकहितप्रवृत्तस्य त्रैलोक्यकण्टकभूताय राक्षसाय भुव- नप्रतिपादनम् ।। अपादानौचित्यं यथा मालवरुद्रस्य-

'एतस्माजलधेर्मिताम्बुकणिकाः काश्चिद्गृहीत्वा ततः
पाथोदाः परिपूरयन्ति जगती रुद्धाम्बरा वारिभिः ।
भ्राम्यन्मन्दरकूटकोटिघटनाभीतिभ्रमत्तारकां
प्राप्यैकां जलमानुषीं त्रिभुवने श्रीमानभूदच्युतः ॥'

अत्र यदुक्तमेतस्मान्महोदधेः परिमिताम्बुकणिकाः प्राप्य जलदा जगत्पूरयन्ति तथा म्रमन्मन्दरकूटकोटिसंघट्टत्रासतरलतारकामेकां जलमा- नुषीं श्रियं प्राप्य श्रीमानच्युतोऽभूदिति तेन सागरगतनिरतिशयोत्कर्ष- विशेषः प्रदर्शितः । एतस्माज्जलधेरित्येतत्पदमौचित्यस्य मूलभूमिः ।। न तु यथा भट्टेन्दुराजस्य----

'आदाय वारि परितः सरितां मुखेभ्यः
किं नाम साधितमनेन महार्णवेन ।
क्षारीकृतं च वडवादहने हुतं च
पातालमूलकुहरे विनिवेशितं च ॥

अत्र महार्णवव्यपदेशेनान्यायोपार्जितद्रविणदुर्व्ययकारिणः सत्संवि- भागविमुखस्य कस्यचिदुच्यते । सरितां मुखेभ्यः समन्तात्तोयमादायापा- त्रेभ्यः प्रतिपादित दूषितम् । यत्त्वत्र सरिभ्द्यः समादायेति वक्तव्ये सरिन्मुखेभ्य इति यदुक्तं मुखशब्दस्य नैरर्थक्यादत्रानौचित्यमेव पर्यवस्यति ॥ अधिकरणौचित्यं यथा कुन्तेश्वरदौत्ये [१]कालिदासस्य-

'इह निवसति मेरुः शेखरः क्षमाधराणा-
मिह विनिहितभाराः सागराः सप्त चान्ये ।
इदमहिपतिभोगस्तम्भविभाज्यमानं
धरणितलमिहैव स्थानमसद्विधानाम् ॥'



१. प्रतिद्धेषु कालिदासग्रन्थेष्ययं श्लोको न प्राप्तः.