पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३८
काव्यमाला।


न तु यथा भट्टबाणस्य-

'जयत्युपेन्द्रः स चकार द्वरतो विभत्सया यः क्षणलब्धलक्षया ।
हशैव कोपारुणया रिपोरः स्वयं भयाद्भिन्नगिवासपाटलम् ॥’

अत्र भगवतो नृसिंहस्य कोपरत्तया दृष्टौव क्षणलब्धलक्षया हिर- ण्यकशिपोदीक्षा स्वयं भयादिभिन्नगिवेति यदुक्त्तं तन्गहोत्साहपराकरस्य प्रतिनायकस्य रिपोः प्रधाननायकप्रतापोदीपनोपकरणीभूताधिकथैर्यस्य स्वयं भयविह्वलतया हृदयस्फुटनमित्युपचितमनौचित्यं 'दृशैव' करणप- दस्य शिरसि विश्रान्तम् ॥ संप्रदानौचित्यं यथा मट्टप[१]भाकरख-

दिङ्भातङ्गधटाविभक्तचतुराघटा मही साध्यते
सिद्धा सापि वदन्त एव हि वयं रोमाशिताः पश्यत ।
विप्राय प्रतिपाद्यते किमपरं रामाय तसी नमो
यस्मादाविरभूत्कथाद्भूतमिदं यत्रैव चास्तं गतम् ॥

'

अत्र दिग्गजचतुरस्रा भूः साध्यते, सा च सिद्धा हेलयवान्नमुष्टिरि- वैकस्मै विपमात्राय प्रतिपाद्यत इति निरतिशयौदार्याश्चर्यचमत्काररुचिरौ- चित्यचर्वणया वयं रोमाञ्चाञ्चिताः पश्यत, रोमाश्वस्य प्रत्यक्षपरिदृश्यमा- नत्वात् । किमपरमपूर्वत्यागिने भार्गवाय तस्मै नम इति विभायेति संप्र. दानपदगत एवोत्कर्षविशेषः प्रकाशते ॥ न तु यथा राजशेखरस्य-

'पौलस्त्यः प्रणयेन याचत इति श्रुत्वा मनो मोदते
देयो नैष हरप्रसादपरशुस्तेनाधिकं ताम्यति ।
ताद्वाच्यः स बचाननो मम गिरा दत्ता द्विजेभ्यो मही
तुभ्यं ब्रूहि रसातलत्रिदिवयोनिर्जित्य किं दीयताम् ॥'

अन्न रावणदूतेन परशुं याचितो भार्गवो भूते-'नैष हरमसादलब्धः परशुर्दानयोग्यः । तत्तस्मादस्मद्वचसा स दशग्रीवो वाच्या, पृथ्वी मया कश्यपाय प्रतिपादिता । तुभ्यं पातालत्रिदिवयोर्मध्मात्किं निर्जित्य दीयताम्'



१.कश्वन सुप्रसिद्धो मीमांसको भप्रमाकर आसीत्, असा गुरुरिति नामान्तरम्.