पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३७
औचित्यविचारचर्चा

  
विधत्ते शौर्यश्रीश्रवणनवनीलोत्पलरुचिः
स चित्रं शत्रूणां ज्वलदनलतापं भवदसिः ॥'

अत्र निश्चलममलजलधारागतं शैत्यं तैक्ष्ण्यं शीतलत्वं च, वनोल्लासो निबिडोत्साहः पर्जन्यतुल्योदयश्च, क्ष्माभृतां सानुसैन्यनिपाती वहति स शौर्यश्रीश्रवणनवनीलोत्पलतुल्यस्त्वत्स्वङ्गश्चित्रं शत्रूणां संतापं करोतीति यदुक्तं तत्कर्मभूतस्य तापस्य शिशिरतरसामग्रीजन्मनः परं वैचित्र्यं रु- चिरमौचित्यमासूत्रितम् ॥ न तु यथा ममैवावसरसारे-

'भमाहितश्वसितवातविबोध्यमानः
काष्ठाश्रयेण सहसैव विवृद्धिमाप्तः।
तापं तनोति निहतारिविलासिनीनां
वहिद्युतिर्भुवननाथ भवत्प्रतापः ॥

अत्र विद्वतारातिनिःश्वसितानिलप्रबोध्यमानः काष्ठाश्रयेण दिक्चक्र. पूरणेन प्रौढतां प्राप्तः पावकतुल्यस्त्वत्प्रतापः शत्रुकान्तानां तापमात्रं तनोतीति तत्समुचितमाश्चर्यं न किंचित् ।। करणौचित्यं यथा गौडकुम्भकारस्य-

'लाङ्गूलेन गमस्तिमान्वलयितः प्रोतः शशी मौलिना
व्याधूता जलदाः सटाभिरुडयो दंष्ट्राभिरुत्तम्भिताः ।
प्रोत्तीर्णो जलधिर्दृशैव हरिणा खैराट्टहासोर्मिभि-
र्लङ्केशस्य च लङ्घितो दिशि दिशि प्राज्यः प्रतापानलः ॥'

अत्र हरिणा हनुमता जलनिधितरणे तरणिलाङ्गूलेन वलयितः किरी- टपान्तेन शशी प्रोतः सटाभिर्मेषा व्याधूतास्तारा दंष्ट्राभिरायासितास्तीर्णो- ऽब्धिर्दृष्ट्यैवाट्टहासतरङ्गैर्लङ्केशस्य विस्तीर्णः प्रतापाग्निः शमित इति बहुभिः करणपदैरुत्साहाधिवासितैर्विस्मयशिखरारोहणसोपानैरिव रघुप- तिप्रभावारम्भविजयध्वजायमानस्य पवनसूनोरौचित्यातिशयः प्रकाशितः ॥