पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३६
काव्यमाला।

- इति प्रगुणगुणाख्यानप्रसङ्गे क्रियापदेन जराजर्जरशरीरत्वमात्रमेव प्रतिपा- दितम् । न तु पौरुषोत्कर्षविशेषातिशयः कश्चिदुचितः संसूचितः ।। कारकौचित्यं दर्शयितुमाह-

सान्वयं शोभते वाक्यमुचितैरेव कारकैः ।
कुलाभरणमैश्वर्यमौदार्यचरितैरिव ॥२०॥

उचितैरेव कारकैः सदन्वयवद्वाक्यं विराजते सद्वंशभूषितमैश्वर्य सञ्च- रितैरिव ॥ कर्तृपदौचित्यं यथा भट्टयाणस्य----

'स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयशोकाग्नेः ।
चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ।'

अत्र शत्रुस्त्रियो व्रतं चरन्तीति वक्तव्ये, स्तनयुग बाप्पसलिलस्नातं शोकाग्निसमीपवर्ति विमुक्तमोजने विगतमुक्ताहारं र सद्व्र तं चरतीत्युक्ते कर्तृपदमौचित्यमुपचितं जनयति ।। न तु यथा परिमलस्य---

'आहारं न करोति नाम्बु पिवति स्त्रौणं न संसेवते
शेते यत्सिकतासु मुक्तविषयश्चण्डातपं सेवते ।।
त्वत्पादाब्जरजः प्रसादकणिकालोभोन्मुखस्तन्मरौ
मन्ये मालवसिंह गुर्जरपसिस्तीव्र तपस्तप्यते ।"

अत्र गुर्जरपतिविद्रुतो मरुगहनं प्रविष्टः परित्यक्ताहारादिसमस्तवि- षयश्चण्डातपोपसेवी तपश्चरतीति यदुक्तं तत्कर्तृपदस्य विशेषाभिप्रायो- चितं न किंचिदुपलक्ष्यते शत्रुत्रासतरलतया मरुकान्तारान्तरावसन्नः सक लविषयसुखभोगपरिभ्रष्टः किमन्यत्कुरुताम् । स्तनयुगवत्कर्तृपदस्य चम- त्कारोचितं न किंचिदभिहितम् ॥ कर्मपदौचित्यं यथा मम लावण्यवत्याम्-

'सदा सक्तं शैत्यं विमलजलधारापरिचितं
धनोलासा क्ष्मामृत्पॄथुकटकपाती वहति यः