पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३५
औचित्यविचारचर्चा ।


नोत्सहत इत्यलं विस्तरेण । अनया दिशा रससंकरे भेदप्रपञ्चौचित्य विप श्चिद्भिः स्वयं विचार्यम् ॥ रसौचित्यविचारानन्तरमुद्देशानुसारक्रमेण क्रमोपगतं क्रियापदौचित्यं दर्शयितुमाह--

सगुणत्वं सुवृत्तत्वं साधुता च विराजते ।
काव्यस्य सुजनसेव यद्यौचित्यवती क्रिया ॥ १९ ॥

काव्यस्य माधुर्यादिगुणवत्ता वसन्ततिलकादिसुवृत्तता परिपूर्णलक्षण- साधुता च विराजते, यद्यौचित्ययुक्तं क्रियापदं भवति । सुजनस्येवेति तत्तु- ल्यत्वं स्पष्टार्थमेव ॥ क्रियापदौचित्यं यथा मम नीतिलतायाम्-

'यः प्रख्यातजयः सदा स्थितिविधौ सप्ताब्धिसंध्यार्चने
दोर्दर्पेण निनाय दुन्दुभिवपुर्यः कालकंकालताम् ।
यः पातालमसृङ्भयं प्रविदधे निष्पिष्य मायाविनं
सुग्रीवाग्र्यविभूतिलुण्ठनपटुर्वाली स किंस्मर्यते ॥'

अत्र सप्ताब्धिसंध्यार्चनप्रख्यातजवो महिषरूपदुन्दुभिदानवोन्माथी मायाविदानवनिष्पेषोद्भूतशोणितपूरितपातालतलः स किं वाली स्मर्यत इति क्रियापदेन शुकसारणाभ्यां रावणस्य दुर्नयाभिनिवेशिनस्तद्विरामाय हितोपदेशेन भवान्वसनकोणनियमिततनुः कक्षायां निःक्षिप्त इत्युचितयुक्ति- युक्तमुक्तं भवति ॥ न तु यथा श्रीप्रवरसेनस्य-

"[१]सगं अपारिजा कोत्युहलच्छिरहिअं महुमहस्स उरं ।
सुमिरामि महणपुरओ अमुद्धअन्दं हरअडापब्भारं ।'

अत्र जाम्बुचताभिधीयमाने स्वर्गमपारिजातं कौस्तुभलक्ष्मीभ्यां विर- हितं मधुमथनस्योरः स्मराम्यमृतमथनपुरतोऽप्यबालचन्द्रं हरजटाप्रग्भारम्'



> १. सेतुबन्धे (४।२०) स्वर्गमपारिजातं कौस्तुभलक्ष्मीरहितं मधुमथनस्योरः । स्म
- रामि मथनपुरतोऽमुग्धचन्द्रं च हरेजटाप्राग्भारम् ॥’ इति च्छाया. </small-