पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३४
काव्यमाला ।

   
संसारे घटिकाप्रणालविगलद्वारा समे जीविते
को जानाति पुनस्वया सह मम स्याहा न वा संगमः ॥'

अत्र प्रकरणवर्तिनः शृङ्गाररसस्य पश्यामि यावन्मुखभित्युत्कण्ठोत्क- ण्ठासमुज्जृम्भमाणस्य स्वभावविरोधिनी शान्तेऽङ्गभावमुपनीते विस्तीर्ण- तरानित्यतावर्णनया वैराग्येण रतेर्न्यग्भावमापादयन्त्याप्रधानरससंबन्धे- नाधिकमनौचित्यमुत्साहितम् । निःसारसंसाराचारुताश्रयणेन हि कठिन- क्रियाकूरचेतसामप्युत्साहभङ्गादङ्गान्यलसीभवन्ति, किमुत कुसुमसुकुमारशृ- ङ्गाररसकोमलमनसां विलासवताम् । प्रान्ते च शान्तपरिपोषनिर्वाहेण राग- वैरस्यमेव पर्यस्यति । तदुक्तमानन्दवर्धनेन-विरोधी वाविरोधी वा रसोऽशिनि रसान्तरे । परिपोषं न नेतन्यस्तेन स्वादविरोधिता ॥ तदेवात्र वैपरीत्येनोपलभ्यते परिपोषविपरीते स्वभावविरोधिन्यपि प्रधाना- नुपरोध एव ॥ यथा राजशेखरस्य-

'माणं मुंचध देह वलहजणे दिहि तरंगुत्तर
तारुण्णं दिअहाइं पंच दह या पीणत्थणत्थंभणं ।
इत्थं कोइलिमंजुसिंजिणमिसाद्देवस्स पंचेसुणो
दिण्णा वित्तमहूसवेण सहसा आणव्व सब्बंकसा ।'

अत्र 'मानं मुश्चत ददत बल्लभजने दृष्टिं तरङ्गिता तारुण्यं दिनानि पञ्च दश वा पीनस्तनस्तम्भनमित्थं कोकिलमधुरध्वनिव्याजेन देवस्थ पञ्चेषोश्चैत्रमहोत्सवेनाज्ञेव सर्वंकषा दत्ता' इति वाक्ये मुख्यः शृङ्गाररसः प्रा- रम्भपर्यन्तव्याप्तिशाली कतिपयदिवसस्थायि यौवनमित्यनित्यतारूपशान्त- रसबिन्दुना मध्यब्रुडितेनेव विरसतां न नीतः। विरुद्धस्य परिपोषाभावात् । विरुद्धवर्णनोदितेन ह्यनौचित्येन स्थायी कुञ्जर इव श्वभ्रपातितः पुनरुत्थातुं


१. "मानं मुखत ददत बल्लभजने दृष्टिं तरङ्गोत्तरां तारुण्यं दिवसानि पञ्च दश या पीनस्तनस्तम्भनम् । इत्थं कोकिलमञ्जुषिजितमिषाद्देवस्य पोxxषोर्दता चैत्रमहोत्सवेन स- हसाज्ञे सर्वकषा"इति चाया.