पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
काव्यमाला।


अत्र हास्यरसस्य बीभत्सरसाधिवासितस्य लशुनलिप्तस्येव कुसुमशेखर स्यातिजुगुप्सितत्वादनीप्सितस्य परमानौचित्येन चमत्कारस्तिरोहितः । वृद्धापरिचुम्बने जिह्वामूलप्राप्तस्य च्युतदशनस्य कण्ठलोठिनः ष्ठीवनेन बीभत्सस्यैव प्राधान्यम्, न तु हास्यरसस्य ॥

करुणो यथा मम मुनिमतमीमांसायाम्----

'प्रत्यग्रोपनताभिमन्युनिधने हा वत्स हा पुत्रके-
त्यस्मद्रावि सुभद्रया प्रलपितं पार्थस्य यत्तत्पुरः ।
येनोद्बाप्पविमुक्तशष्पकवलैः सेनातुरंगरपि
न्यञ्चत्पार्श्वगतैककर्णकुहरैनि:स्पन्दमन्दं स्थितम् ॥

अत्र प्रत्यग्रोपनतप्रियतरतनयवियोगोपजनितशोकाख्यस्थायिभावोचितं दृषदामपि हृदयद्रावणं समुद्रया यत्प्रलपितं तदर्जुनचेतसि प्रतिफलितं न केवलमुद्दीप्ततामुपगतं यावतिरश्चा तुरंगमाणामप्यन्तः संक्रान्तमुद्बाष्पविभु- कशष्पकवलनिःस्पन्दस्थितादिभिरनुभावैरुदीर्णतरुणकरुणरसप्रतिपत्तिं किम- प्यादधाति ॥ नतु यथा परिमलस्य-

'हा शृङ्गारतरङ्गिणीकुलगिरे हा राजचूडामणे
हा सौजन्यसुधानिधान हहहा वैदग्ध्यदुग्धोदधे ।
हा देवोज्जयिनीभुजंग युवतिप्रत्यक्षकंदर्प हा
हा सद्बान्धव हा कलामृतकर क्वासिं प्रतीक्षख नः ।।'

अत्र हाहेति हतमहीपतिविरहे तद्गुणामघ्रणपदैर्वक्तृवक्त्रगत एव शोकः केवलमुपलक्ष्यते । न तु विभावानुभावव्यभिचारिसंयोगेन शोकाख्यस्य स्था- विभावस्योचितं रसीकरणं किंचिन्निष्पन्नम् ॥ रौद्रे यथा भट्टनारायणस्य-

'यो यः शस्त्रं बिभर्ति खभुजगुरुमदः पाण्डवीनां चमूनां
यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा ।
यो यस्तकर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपं.
क्रोधान्वस्तस्य तस्य स्वयमपि जगतामन्तकस्सान्तकोऽहम् ॥