पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११७
औचित्यविचारचर्चा


यथा [१]परिमलस्य-

’मग्नानि द्विषतां कुलानि समरे त्वत्खङ्गधाराकुले
नाथास्मिन्निति बन्दिवाचि बहुशो देव श्रुतायां पुरा ।
मुग्धा गुर्जरभूमिपालमहिषी प्रत्याशया पाथसः
कान्तारे चकिता विमुञ्चति मुहुः पत्युः कृपाणे दृशौ ।'

अत्र मुग्धापदेनार्थौचित्यचमत्कारकारिणा सूक्तिः शरदिन्दुक्दनेव श्या- मतिलकेन श्यामेव शुभविशेषकेण विभूषिता सकलकविकुलललामभूतां विच्छित्तिमातनोति । न तु यथा [२]धमकीर्तेः-

'लावण्यद्रविणव्ययो न गणितः क्लेशो महान्स्वीकृतः
स्वच्छन्दस्य सुखं जनस्य वसतश्चिन्ताज्वरो निर्मितः।
एषापि स्वयमेव तुल्यरमणाभावाद्वराकी हता
कोऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता ॥'

अत्र 'तन्व्याः' इति पदं केवलशब्दानुपासव्यसनितया निबद्धं न कांचिदर्थौचित्यचमत्कारकणिकामाविष्करोति । 'सुन्दर्याः' इत्यत्र पदमनुरूपं स्यात् । अन्यानि वा निरतिशयरूपलावण्यव्यञ्जकानि । तन्वीपदं तु विरह- विधुररमणीजने प्रयुक्तमोचित्यशोभां जनयति । यथा [३]श्रीहर्षस्य-

’परिम्लानं पीनस्तनजघनसादुमयत-
स्तनोर्मध्यस्यान्तः परिमलनमप्राप्य हरितम् ।



१. पद्मगुप्तापरनामा परिमलकविः साहसाङ्कचरितनामकेऽष्टादशसर्गात्मके महाकाव्ये-
अवन्तिभूपालस्य चरितं वर्णितवान.। २, अयं बौद्धो धर्मकीर्तिर्वासवदत्ताकर्तुः सुबन्धु-
कवेरपि प्राचीन आसीत. वासवदत्तायां वासवदत्तावर्णनप्रकरणे बौद्धसंगतिमिवालंकार-
भूषिताम्' इत्यस्ति. 'बौद्धसंगतिमिवालंकारो धर्मकीर्तिकृतो ग्रन्थविशेषस्तेन भूषिताम्'
इति तट्टीकायां शिवरामः,आनन्दवर्धनाचार्येणायमेव श्लोको धर्मकीर्तिनामोल्लेस्तपूर्वकंध्व-
निप्रन्म उदाहृतः सुभाषितावलावपि बहवो मदन्तधर्मकीर्तिश्लोकाः सन्ति। भदन्तशब्दो
बौद्धभिक्षुवाचकः ।. ३. रत्नावलीप्रियदर्शिकानागानन्दानां कर्ता कोऽयं, श्रीहर्ष इति न

११.प्र् गु.