पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११५
औचित्यविचारचर्चा


[१]महाकविश्रीक्षेमेन्द्रकृता

औचित्यविचारचर्चा।

कृतारिवञ्चने दृष्टियेनाञ्जनमलीमसा ।
अच्युताय नमस्तस्सै परमौचित्यकारिणे ॥१॥

कृत्वापि काव्यालंकारां क्षेमेन्द्रः [२]केविकर्णिकाम् ।
तत्कलङ्कं विवेकं च विधाय विबुधप्रियम् ॥२॥

औचित्यस्य चमत्कारकारिणवारुचर्वणे ।
रसजीवितभूतस्य विचारं कुरुतेऽधुना ॥ ३ ॥ (युम्मम्)

काव्यस्यालमलंकारैः किं मिथ्यागणितैर्गुणैः ।
यस्य जीवितमौचित्यं विचिन्त्यापि न दृश्यते ॥४॥

अलंकारास्त्वलंकारा गुणा एव गुणा: सदा ।
औचित्यं रससिद्धस्य स्थिरं काव्यस्य जीवितम् ॥ ५ ॥

परस्परोपकारकरुचिरशब्दार्थरूपस्य काव्यस्योपमोत्प्रेक्षादयो ये प्रचु- रालंकारास्ते कटककुण्डलकेयूरहारादिवदलंकारा एव, बाह्यशोभाहेतुत्वात् । येऽपि काव्यगुणाः केचन तल्लक्षणविचक्षणैः समानातास्तेऽपि श्रुतसत्य- शीलादिवद्गुणा एव, आहार्यत्वात् । औचित्यं त्वग्रे वक्ष्यमाणलक्षणं स्थिरमविनश्वरं जीवितं काव्यस्य, तेन विनास्य गुणालंकारयुक्तस्यापि निर्जीवत्वात् । रसेन शृङ्गारादिना सिद्धस्य प्रसिद्धस्य काव्यस्य धातुवा- दरससिद्धस्येव तज्जीवित स्थिरमित्यर्थः । उक्तार्थस्यैव विशेषमाह-

उचितस्थानविन्यासादलंकृतिरलंकृतिः ।
औचित्यादच्युत्ता नित्यं भवन्त्येव गुणा गुणाः ॥६॥



१. कलाविलासप्रारम्भलिखितक्षेमेन्द्रकृतग्रन्थनाममालिकातिरिक्ता: क्षेमेन्द्रकृता
ग्रन्थास्त्वेते---(१)अवसरसारः, (२) नीतिलता, (३) मुनिमतमीमांसा, (४) ललितरत्न
- माला, (५) विनयवल्ली.। अथ च तत्र क्षेमेन्द्रकृतग्रन्थेषु 'हस्त्रिजनप्रकाशः' इति प्रन्थनाम
लिखितम् , तत्कर्ता कश्चिदर्वाचीनो गुर्जरदेशोद्भवो यदुशर्मसूनुरन्यः क्षेमेन्द्र इति ज्ञेयम्।
अयमनेकप्रम्थकर्ता महाकविः क्षेमेन्द्रस्तु प्रकाशेन्द्रात्मजः कश्मीरदेशोद्भूतश्चेति सुप्रसिद्धमेव.

२. कस्यचित्क्षेमेन्द्रकृतग्रन्यस्यैव नाम भाति.