पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
महागणपतिस्तोत्रम् ।


 कान्तस्य खखभर्तुरालिङ्गनरसं जानन्त्यत एव मन्थरा रागिणी दृग्यासां ताः । आ-. मोदादीनां पूर्वश्लोकोक्तानां षण्णां भार्यातेषां समीपे स्थिता ध्येयाः । तासां नामानि च-सिद्धिः, समृद्धिः, कान्तिः, मदनावती, मदद्रवा, द्राविणी चेति ॥

आश्लिष्टौ वसुधेत्यथो वसुमती ताभ्यां सितालोहितौ
वर्पन्तौ वसु पार्श्वयोर्विलसतस्तौ शङ्खपद्मौ निधी ।
अल्गान्यन्वथ मातरश्व परितः शक्रादयोऽब्जाश्रया-
स्तद्बाह्ये कुलिशादयः परिपतत्कालानलज्योतिषः ॥ १३ ॥

 वसुधमा वसुमत्या च कमेणालिङ्गितौ शुक्लरक्तवर्णौ धनं वर्सन्तौ शङ्खपद्मसंशौ प्र- सिद्धौ नीधी पदकोणपार्श्वयोर्बिलसतः । तयोर्प्यानं कुर्यादित्यर्थः । अनु निधिध्यानानन्तरं हृदयादि षडङ्गानि ध्यायेत् । परितो ब्राह्म्याद्या अष्ट मातरो ध्येयाः। षट्कोणाद्बहिः स्थिते- ऽष्टदलकमल इन्द्रादयो दिक्पालास्तद्बाह्ये तेषां समीप एक परिपतत्कालानलज्योतिषः प्रदीप्तस्वरूपा इन्द्रादीनां हेतयो बन्ध्राद्या ध्येया:॥

इत्थं विष्णुशिवादितत्त्वतनवे श्रीवक्रतुण्डाय हुं-
काराक्षिप्तसमस्त दैत्यपृतनाव्राताय दीप्तविपे ।
आनन्दैकरसावबोधलहरीविध्वस्तसर्वोर्मये
सर्वत्र प्रथमानमुग्धमहसे तसै परस्मै नमः ॥ १४ ॥

 हेरम्बं प्रणमामि' (९।१०) इति श्लोकाभ्यां विष्णुशिवादिस्वस्मैस्तनुर्मूर्तिर्यस्य स तस्मै । आदिपदात्स्मरक्रौडौ । हुंकारमात्रेण निरस्तसमस्तासुरसैन्यसमूहाय दीप्तकान्तये । आनन्देति । निरतिशयसुखस्फुरणतरङ्गैर्दूरीकृतसंपूर्णोर्मये । ऊर्मयः षड्भावविकाराः । ते च--जायते, अस्ति, वर्धते , विपरिणमते, अपक्षीयते, नश्यतीति च । आनन्दैकरसाव- व्योधलहरीभिर्विध्यस्थाः सर्वेषां साधकानामूर्मयः पडिन्द्रियजन्या वृत्तयो यस्मादि- स्येके ऊर्मिशाब्देनाविद्यादयो योगशास्त्रप्रसिद्धाः क्लेशाः । सर्वत्र प्रथमान मुग्धं सुन्दरं महो यस्य तस्मै परस्मै जगतोऽन्यस्मै नमः ॥

सेवाहेवाकिदेवासुरनरनिकरस्फारकोटीरकोटी-
कोटिव्याटीकमानद्युमणिसममणिश्रेणिभावेणिकानाम् ।
राजन्नीराजनश्रीसखचरणनखद्योतविद्योतमान:
श्रेयः स्थेयः स देयान्मम विमलदृशो बन्धुरं सिन्धुरास्यः ॥१५॥

 सेवायं हेवाकोऽमिलाषो येषाम् । बहमग्रेऽहमग्रे भवामीतीच्छा । अहंपूर्विकेति या- 'बत् । तेच ते दवासुरनराणां समूहास्तेषां देवीप्यमान मुकुटाप्राणां या कोटिः संख्या- विशेषस्तत्र व्याटीकमानाः सुसंगताः सूर्मतुल्यरत्नपङ्क्तिकान्तिप्रवाहासेषाम् । राजन्ती