पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१११
वक्रोक्तिपञ्चाशिका।

 
नव्यं कः कथयेकिमत्र भवता व्यकेन साङ्कन वा
गौर्यात्तप्रतिपत्तिरुचरगिरा शंभुः कृतः पातु वः ॥ ३५ ॥

न क्रीडामिति नेति निषेधे । क्रीडा खेलाम् , नका मकरा विद्यन्ते यस्य स नकी समु- द्रवस्येडा स्तुतिर्नक्रीडा तां च । नवः स्तवः, नूतनश्च । प्रनं पुराणम् । 'पुराणप्रतनप्र- त्नपुरातनचिरंतनाः' इत्यमरः । सविपक्षा ह्येषा लौकिकी वाचोयुक्तिः । एवं व्यङ्गेन साङ्केनेति । नव्यं क इति नव्यं नूतनं को जातु कथयेत् , उत्तरे नेति निषेधः । विगतो- ऽङ्को यस्यासौ व्यङ्कः ॥

  
एषा सागरसंगताभिमततां याता न मे कर्हिचि-
न्मुग्धे कण्ठभुवं ब्रवीषि मम किं सक्ष्वेडतामीयुवीम् ।
क्ष्वेडाराव इहोचितस्तव गणव्रातैः सह क्रीडतो
युष्मान्नीलगलोऽवतादिति गिरा गौर्या कृतोऽनुत्तरः ॥ ३६॥

सागरसंगतेति सागरेण समुद्रेण संगता । अर्थाद्गङ्गे । उत्तरे तु सेति सर्वनामपदम, गरो विषम् । तदाह-सक्ष्वेडेति सह श्वेडेन विषेण, क्ष्वेडया शब्दविशेषेण च सक्ष्वेडम्, श्वेडं विषम् , श्वेडा जनस्य शब्दविशेषः ॥

  
ख्यातं सज्जगतीह किं नु चरितं विष्वग्विनोदीव ते
सज्जास्ति क्व गतिर्न मेऽत्र रुचितः कश्चिद्विहारः क्वचित् ।
नेष्टं ते जिनसद्म चेद्वस ततः सार्वं श्मशाने मया
मायां वो दहतादिति त्रिनयनः सूक्त्या जयन्पार्वतीम् ॥ ३७ ॥

सज्जगतीति सच्छोभनं जगति भुवने, उत्तरे तु सज्जा सावधाना गतिर्यस्य तत्सज्ज- गति । विष्वक्समन्तात् । विहारो विहरणम् , बुद्धवेश्म च । 'बुद्धानां च विहारोऽत्री' इति कोषः ॥

  
सुभ्रूर्मूर्धनि मेऽत्र पावनतया नूनं स्थितं गङ्गया
हीरस्सा मत का भवेदवनता कास्ति त्वयेत्युच्यताम् ।
मन्दाक्षामिमता न मे भवति ते पहिन्द्रियैव प्रिया
नूनं स्यादिति वो विनिर्जितशिवा शर्वाण्यधौषच्छिदे ॥ ३८॥

अत्र पावनतयात्र मूर्धनि पावनतया पवित्रत्वेन, परत्र त्रपया लज्जयावनता तवा। मन्दाक्षं लज्जा, वक्रोतौ तु मन्दाक्षाऽपट्विन्द्रिया ।

  
मूर्धानं हर संश्रिता किल हलश्रेणी वितस्तार ते
संबन्धः क इवात्र लागलततेर्नाहं वितस्तारतिः।