पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०६
काव्यमाला।


पार्वत्युक्तिः । सुराणां देवानामापगा नदी गङ्गा । वक्रोक्तौ तु सुराया हालायाश्चाप

उच्चैः किं न दधास्युपाकरकृते केशग्रहे त्वं शिरो
मुग्धे नात्र कृतः कचग्रह उपाहस्तेन मे कुत्रचित् ।
सोमं वच्मि शठ त्वया विरहितः सोमोऽस्मि नेत्यन्यथा
मा बृहीति हतोत्तरामगभुवं कुर्वन्हरः पातु वः ॥ १६ ॥

उच्चरित्यादि पार्वत्युकिः । उषाकरकृत उषां रात्रिं करोतीत्युपाकरधन्द्रस्तेन कृ- केशग्रह उच्चैरुन्नतं शिरः किं न दधासीत्युपहाराः । चक्रोक्ती तु । उपायाश पाणदु- हितुः करो हस्तः । हे शठ सोमं वच्मि । वक्रोक्तो तु सोमम् , उमासहितं च । त्वया विरहितो वियुक्तोऽहमेव सोमः । सहोमया वर्तते सोऽसौ सोमः । सोमो नास्मीत्यन्याय मा ब्रवीः । बया युक्त एष सोमोऽस्मीति । शठेति मा वदेत्यर्थः ॥

जेतुं नाथ न वक्रतावहितया शक्यो गिरा त्वं मया
प्रत्यग्रः सुतनु क्रतुः कथय को यत्राहितत्वं तव ।
किं तत्स्यादहितत्वमत्र दयिते नागेश्वरः पृच्छ्यता-
मित्यव्याकुटिलोक्तिनिर्जितहिमक्ष्माभृत्स्तुतो वः शिवः ॥ १७ ॥

वक्रतावहितया वक्रतायं वक्रोक्ताववहितया सावधानया मया न त्यंजेतुं शक्यः । परत्र । नवक्रतौ नवयज्ञेऽहितया विपक्षभूतया । अहितत्वमाहितस्य भायोऽहित्वम् । अहीनां सर्पाणां तत्वमाहितत्त्वम् । अत्राहितत्त्यमित्यस्यादितत्त्वार्थे व्यसनद्वयभावेऽपि न दोषः । हलः परस्यैकस्य व्यजनत्याद्वयोर्धा यमकचित्रवक्रोत्यादां विशेषमावस स्मृतेः । यथा 'शुक्ले शक्लेशनाशम्' इत्यादौ "शुक्ले शुक्ले"' इति यमके शुक्ल गुण- यक्ते शुचः क्लेशस्यच् नाशं शुक्लेशनाशं दिशतीत्यर्थः संपद्यते । यदुक्तम्-'यमकश्लेषधि-"- श्रेषु दन्योष्ठववकारयोः । न मेदो रलयोश्चैव न नकारमकारयोः ॥ हल: परस्य चंकरस व्यजनस्य द्वयोरपि । न विशेषो विसर्गस्य भवेव सदसत्तवयोः । इति ॥

खिन्नाहं बहुनागसा तव विभो गानुबद्धस्थिते-
र्नागस्त्वय्यपि मे नताङ्गि मयि ते नागोऽस्ति नो कुत्रचित् ।
सुभ्रूर्नाहमिति ब्रवीम्यवितथं ना त्वं यतोऽनुत्तम-
स्त्रासीष्टेत्यनृजूक्तिहासितहरानिष्ठाद्भवानी जगत् ॥ १८ ॥

बहुनागसापराधेन । 'आगोऽपराधो मन्तुच' इत्यमरः । परत्र बहवो नागा य्स्य बहुनाग इत्यामन्त्रणम् । सा गौरीपरामर्थः । साहं बहु स्स्निन्नेत्यन्वयः । अत्र हेतुमाह- गङ्गेत्यादि । मे नागः सर्पस्त्वय्यपि नो । काक्वा त्वम्यपित्यर्थः । ते नागाः सर्पो मय्यपीति