पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
१०५
वक्रोक्तिपञ्चाशिका ।

अस्मिन्सानुमति प्रिये न रमसे कमान्मुधा खेदिनी
नाहं सानुमती प्रिया सुभग ते येनेत्थमामन्त्रिता ।
सज्जानास्यभिभाषितं सुवदने सज्जा स्थितैवास्मि ते
वक्तुं पृच्छ यदीच्छसीति विजितो गौर्यावताद्वो हरः॥ १२ ॥

मुधा व्यर्थं खेदिनी सानुमति पर्वते । परत्र हे सानुमति । सानुमती नामाप्सराः । सत्साधु जानासि वेत्सि । वक्रोत्तौ तु सज्जा सावधाना नासि न भवसि । वक्तुं सज्जा पावधानैवास्मि यदि त्वं पृच्छसीति गौर्या विजितः ॥ </poem> इष्टा गौरवशालिनी त्वमधिकं तन्वङ्गि मे सर्वदा नेष्टाहं शठ गौः कदाचिदवशा नैवालिनी च क्वचित् । चक्रोक्तौ तव जृम्भते कुशलता स्याद्दर्भवल्ल्यात्र किं देव्या बोऽनृजुवाक्यनिर्जित इति त्र्यक्षः क्षिणोतु द्विषः ॥ १३ ॥ </poem> गौरवशालिनी बहुमानश्लाघिनी । परत्र । गौः, अवशा, अलिनी च। अलिनी भ्रमरी । कुशलता कौशलम् , कुशानां च लता वल्ली। अनृजुवाक्येन वकोक्त्या वि- जितः। क्षिणोतु क्षपयतु ॥

  
नो दीयामि सहामुनाहमधुना द्यूते प्रवीणो हरः
सत्यं देवि हरोऽस्मि नैव तु पुनर्वीणा प्रकृष्टास्ति मे।
केनागादि तवेदृशं शिरसि मे नास्त्येव नागादि भोः
पार्वत्येति हतोत्तरो हरतु वः सूक्त्या विभुः कल्मषम् ॥ १४ ॥

अधुनामुना शंभुना सह नो दीव्यामीति सखीं प्रति पार्वत्युक्तिः । अत्र हेतुमाह- धूत इत्यादि । प्रवीणः कुशलः, प्रकृष्टवीणश्च । हरः शिवः, हर्ता च पणम् । अगादि कथितम् । 'गद व्यक्तायां वाचि' । पक्रोक्तौ तु के शिरसि नागादि नागः सर्प आदि- र्यस्य तन्नागादि में नास्त्येव । भोः शंभो ॥

  
नो शक्तासि पतन्त्रिमार्गमधुना मूर्धानमेतं तव
द्रष्टुं नैव पतत्रिणां प्रियतमे मार्गोऽस्ति मूर्धा क्वचित् ।
नन्वेतद्विगलत्सुरापगमहं द्वेष्मि प्रिये नो सुरा-
नद्यस्मिन्गलतीति वक्रमुदितं देव्या विभोः पातु वः ॥ १५ ॥

पतत्रिमार्ग पतन्ती त्रिमार्गा गङ्गा यसात्तं वहद्ङ्गमम्, पतत्रिणां पक्षिणां मार्गं न्यानं च । ननु निश्चये । अहमेतत्त्वच्छिरो. बिगलत्सुरापगं गलद्गङ्गं द्वेष्मीति ९०.