पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४
काव्यमाला।

कोपं संप्रति मुञ्च देवि विनते मय्येष बद्धोऽजलि-
र्नैवाहं विनता निरागसममुं वनासि किं न्वजलिम् ।
मुग्धे नोक्तमिदं मया स्फुटमिदं वं मुग्ध इत्थं ब्रुव-
न्सूक्त्या शैलभुवा विनिर्जित इति त्र्यक्षः शिवायास्तु नः ॥ ८॥

विनते प्रहे मयि, विनता गरुडमाता च तस्या आमन्त्रणं हे विनते । मुग्धे इत्याम अणं है मुग्धे, नेति निषेधे मया नोक्तमिदम् । वक्रक्तो तु मुग्धेनेति तृतीया। मुग्धेन मूढेन ।

द्वीपिन्यत्र तवेश मूर्वनि न मे जाताधुना निर्वृति-
र्यो मूर्धा दयिते कथं स भवति द्वीपीति नावैषि किम् ।
स्थान्नावा स्थल एव ता यदिह किं कार्यं ययैमीति वो
दिश्यान्मालमद्रिजानृजुगिरा स्मेरः स्मरारिर्जितः ॥ ९॥

द्वीपिनी नदी गङ्गा । 'सोतस्वती द्वीपवती' इत्यमरः । वक्रोक्तो तु गाङ्गाधारणाद्विधा गता आपो यत्र स दीपी मूर्धा, दीपी शार्दूलय । शार्दूलदीपिनौ इत्यमरः । निर्वृत्ति: सुखम् । नावैषि न जानासि । नावा च तरण्या एष्यागछसि । यया नावा एम्यागच्छामि। अद्रिजया पार्वत्या । अनुजुगिरा वक्रोक्त्या जितः । स्मेरः सहासः ॥

घूते मां प्रति देव कीदृशमिहाकार्षीः पणं देवकी-
दृष्ठ्या किं क्रियतेऽत्र नाभिहितवत्यस्मीति किं भाषसे ।
स्थातिक सुन्दरि नाभये बद हितं यत्तेऽस्ति गौरीमिति
ध्यक्षः स्मेरमुखीं जयन्कुटिलया वाचास्तु वः श्रेयसे ॥१०॥

देव कीद्दशमिति । हे द्वे कीदृशं कर्थभूतम् , देवक्याश्च श्रीकृष्णमातुदृश्ं दृष्टिम् । नाभिहितवती नोक्तवती, नाभये च हितवत्यनुकूला ॥

त्वामालिङ्गि तुमाहतं बहुभुजं जानामि धन्यं चिरा-
दात्मानं दयिते किमेष बहुमुक्तन्वीति मैवामिधाः ।
ख्यातैवास्ति यतो ममानशनता सत्य न नश्यस्यसा-
वाघेयादिति नः शिवं गिरिसुतासूक्त्या शशाङ्की जितः ॥ ११ ॥

बहुभुजं सहस्रबाहुम् , बहु भुनीक्तीति बहुमुक्तं प्रभूताधिनं र । एषोऽहं हे तन्वि इति मैलाभिषाः । अभशनता नाशनं भोजन यस्य सोऽनशनं ना नाशनं नाशो यस्यसा- वनशनस्तद्भावोऽनशनता स्माधेयास्किया । सूक्तिः सुभाषितोक्तिः वक्रोक्तिरित्ययं॥