पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३
वक्रोक्तिपञ्चाशिका ।

नो संध्याहितमत्सरा तब तनौ वत्स्याम्यहं संधिना
न प्रीतासि वरोरु चेत्कथय तत्प्रस्तौमि कि विग्रहम् ।
कार्य तेन न किंचिदस्ति शठ मे वीनां ग्रहेणेति वो
दिश्याद्वः प्रतिबद्धकेलिशिवयोः श्रेयांसि वक्रोक्तयः ॥ ४ ॥

संध्याया दिनरात्र्यो रात्रिदिनयोश्च मध्यस्थायाः पितृप्रस्वाः, संधिना संयोगेन चाहितो मत्सरो यस्याः सा संध्याहितमत्सरा । विग्रहो बिरोधः, वीनां पक्षिणां च ग्रहो ग्रहणम् । शिवश्च शिवा च शिवौ । एकशेषः । तयोः शिवयोः ॥

न त्वं संप्रतिभासि वातरशनस्त्यक्ता त्वया किं त्रपा
मुग्धे संभाविनी न वातरशना को मेखलाया विभो ।
संबन्धोऽत्र किमेतदाह भवती स्यात्ते खलत्वं कुतः
श्रेयांसीति करोतु वः प्रियतमां सूक्त्या हरो हासयन् ॥ ५ ॥

वाता गता रशना यस्य, वातरशनो दिगम्बरः । वातो वायुश्च रशना मेखला यस्य । मेखलाया रशनायाः, मे मम च खलाया दुष्टायाः । हासयन्सहासां कुर्वन् ।

नासूयाम्यहमस्थिराजय इह त्वद्देहभागे कथं
मुग्धे संयुगभग्नदानवगणा नैव स्थिराल्त्र्ं जये।
मूढेनेव जया वदेति भवताकसात्किमामध्यते
वक्रोक्त्येति पुनातु वो गिरिमुवा मूकीकृतः शंकरः ॥ ६ ॥

असूयाम्युद्विजे । अस्थिराजयेऽस्त्रां कीकसानां राजिः पङ्क्तिस्तस्यै की कसश्रेणये, पद- भङ्गे, जये जयविषयेऽस्थिरा चटुला च । है मुग्धे रणमग्नदैत्यगणा त्वं जयेऽनमिभवे नैव स्थिरा । काक्वा स्थिरैवासीत्यर्थः । जये जयामिधाने, प्रतीहारिणि च । अत एव त्वया मूढेनेव त्वं वदेति जया जयामिधा प्रतीहार्यकस्मादेव निर्हेतु किमामन्ञ्यते किमाहूयते । इति गिरिमुवा पार्वत्या वक्रोक्त्या मूकीकृतो निर्वचनीकृतः ॥

सालंकारतया स्वया मम कथं नेन्दोः कला दृश्यते
पश्यामीन्दुकला स्फुटं पुनरिदं लङ्कारता नास्मि यत् ।
नो भूषाविषयं मयोदितमिदं स्वामिन्क्व भूः क्वाप्युषा
दिश्यादद्रिसुतानृजूक्तिविजितः शूली स वः संपदः ॥ ७ ॥

सा प्रसिद्धालंकारतया भूषणत्वेन, लङ्कायां च रावणपुर्या रतया सक्तया । भूषालंकारः। वक्रोक्तौ तु भूश्च भूमिश्च, उषा बाणसुता व भूषा तद्विषयम् ॥