पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२
काव्यमाला।

सव्यालम्बनमेतदध भवतो निःलेह मुञ्चाम्यहं
सव्यालं विजहीहि सुन्दरि वनं निःस्नेहता नास्ति में।
मैवं वक्ष्यसि किं वनं ननु जलं मूर्ध्ना मयैवोह्यते
वक्रोक्त्येति हिमाद्रिजामवचसं कुर्वन्हरः पातु वः ॥१॥

सव्यालम्बनं वामभागावस्थानम् ,सव्यालं व्यालैर्दुष्टसत्त्वैः सहितं वनं च । दन्त्यौष्ठययोर्हि शब्दालंकारेषु यमकवक्रोक्त्यादिषु न तथा कवयो भेदग्राहिणः । मैवम् । कुटिल कस्य वनविवक्षेत्यर्थः । वक्ष्यसि कथयिष्यसि, भारयिष्यसि च । "वह प्रापणे" धातोः । वनं काननम्, जलं च । अवचसं जित्वा निर्वचनाम् ॥

त्वं हालाहलभृत्करोषि मनसो मूर्छां ममालिङ्गितो
हालां नैव बिभर्मि नैव च हलं मुग्धे कथं हालिकः।
सत्यं हालिकतैव ते समुचिता सक्तस्य गोवाहने
वक्रोक्त्येति जितो हिमाद्रिसुतया स्मेरो हरः पातु वः ॥२॥

हालाहलं विषविशेषम् , हालां मुराम , हले सीरं च । आलिङ्गितस्त्वं मम मनसो मूएछाम् करोषीति संबन्धः । गौरव वाहनं गोवाहनम् , गोश्च वृषभस्य वाहनं प्रेरणम् । हल वहतीति हालिकश्च । "हलसीराट्टक्" । स्मेरः सहासः॥

त्वं मे नाभिमतो भवामि सुतनु श्वश्वा अवश्यं मतः
साधूक्तं भवता न मे रुचित इत्यत्र ब्रुवेऽहं पुनः ।
मुग्धे नास्मि नमेरुणा ननु चितः प्रेक्षस्व मां पातु वो
वक्रोक्त्येति हरो हिमाचलभुवं स्मेराननां मूकयन् ॥ ३ ॥

में नाभिमतो में मम चालिमतो न रुचितः, मेनायाश्च निजश्वश्वासिमतः । मेना हिमाचलस्त्री । न मे रुचितो न मे मम सचितोऽमिमतः, नमेरणा बन्यफलविशेषेण च चितो व्याप्तः॥


वीशतकस्तोत्रे ॥ वसुमुनिगगनोदधि (४०७८) समकाले याते कलेस्तथालोके । द्वापञ्चाशे वर्षेरचितयामगुप्तनृपे ॥' इस्लेखि. भीमगुप्तश्च ९७५ मिततिस्तसंवत्सरादारभ्य सपादं वर्षचतुष्ट कश्मीरान्युभोज कश्मीरदेशप्रसिद्ध लोकान्दश्च तदानीं द्विपश्चाशन्मित आसीदित्यर्थःxx काम्दश्च सदा शतसंख्यातो न्यून एव तिष्ठति. वल्लभदेवकृता रघुवंश- कुमारजंभव-मेघदूत-शिशुपालवध-सूर्यशतकादिटीकाः समुपलभ्यन्ते. देवीशतकस्यापि संक्षिप्तं टिप्पणं वल्लभदेवेन कृतम् सुभाषितावलीसंग्रहकर्ता बलभदेवस्त्वन्यः स च विसावत्सरीमपञ्चदशशतकपूर्वार्षतो न प्राचीनः,