बाह्यगतागतशीला प्राणस्य श्वासलक्षणा वृत्तिः ।
कर्षति मनसो वृत्तिं कुलटेव कुलस्त्रियं मुग्धाम् ॥ ८० ॥
अतिगम्भीरमनाविलमक्षोभ्यमदृष्टपारमविलङ्ध्यम् ।
अविरलतरङ्गसंकुलमैक्षिषि विज्ञानसागरं महताम् ॥ ८१ ॥
घोरं भवमपहातुं केचिदघोरं प्रपद्यन्ते ।
संसरणकातराणां संशरणं शांभवी शक्तिः ॥ ८२ ॥
पाशो यदि मोक्तव्यः पशुपतिरेवोपसर्तव्यः ।
न खलु व्यतिमुच्यन्ते पशवः पाशेन संबद्धाः ॥ ८३ ॥
अलमलमनुभूताभिर्मातृभिरलमस्तु पितृभिश्च ।
भवितव्यं यदि नित्यवदर्थं मातुः पितुश्चास्तु ।। ८४ ॥
धन्यास्ते बहुदेवाः स्वामिनि येषां न दुर्भिक्षम् ।
जातु न जानीमो वयमेकं तं स्वामिनं पूर्णम् ॥ ८५ ॥
सन्तु बृहन्तो देवाः किं तु न तानन्तुमीहते चेतः ।
आढ्यवदान्यन्यायादन्तकजितमेव चिन्तयेन्मनसि ॥ ८६ ॥
निध्यायसि विषयसुखं न ध्यायसि विषममस्य परिपाकम् ।
बन्धुं तमेव चिन्तय बद्धुं मोक्तुं च यः क्षमते ॥ ८७ ॥
सदनं गुरूपसदनं शरणं पञ्चाक्षरीपुरश्चरणम् ।
धनमभिलाषनिरोधनमन्त्याश्रमवर्तिनां पुंसाम् ॥ ८८ ॥
कौ पितरौ कः पुत्रः कः स्वामी यः प्रपञ्चस्य ।
प्रत्यस्तमिते भेदे किमिदं किमिदमिति विप्रश्नः ॥ ८९ ॥
स विधिर्यत्ते विदधति स प्रतिषेधो यतो निवर्तन्ते।
सोपनिषद्यद्ब्रुवते शैवाश्रमवर्तिनो धीराः ॥ ९० ॥
त्यज संसारमसारं भज शरणं पार्वतीरमणम् ।
विश्वसिहि श्रुतिशिखरं विश्वमिदं तव निदेशकरम् ॥ ११॥
भव्यमभत्र्यं वा नः पुलिखतु वेधाः सुदुर्मेषाः ।
सध्यमसव्यं वा नः शरणं चरणं महेशस ॥ १२ ॥
पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१०५
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
९८
काव्यमाला।
