पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। वाक्कायचित्तप्रकृतिस्वभाव- बुद्ध्यात्मभिः सदसतोरपि संगमेन । यद्यत्कृतं यदपि भाव्यमशेषभात- र्यद्यत्करोम्यखिलमस्तु तवार्पणं तत् ।। ८३ ॥ इति श्रीमदत्रिगोत्रमाणिक्यसामगोपनासकवेणीमाधवाचार्यसुतरसालंकारपारा- वारपारीणलक्ष्यणाचार्य कृता श्रीचण्डीकुचपञ्चाशिका संपूर्णा ।।

श्रीविद्यावागीशकविविरचितं. कौन्तेयवृत्तम् । प्रथमः सर्गः। दिश्युत्तरस्यां निकषा हिमाचलं चकास्ति शैलः किल गन्धमादनम् । अन्वर्थमुद्रां निजनाम्नि योजयन्प्रसूनसंपत्तिविसारिसौरभैः ॥ १ ॥ सिञ्चन्ति चेतः सुखवृत्तिधारया यत्कन्दराभ्यन्तरवासिनश्चिरम् । मुञ्चन्ति किं चानुचिताः सनातनीर्निरन्वयं बन्धनवासनाः समाः ॥२॥ सदा सदारैरनुदारमानसैर्मुदा यदारामविहारसादरैः । सनादनालोकितमानुभानुभिर्विद्याधराद्यैरतिनीयते तपः ॥ ३ ॥ गाद परिष्वज्य रसार्द्रसुन्दरीरासां पिबन्तो रदनच्छदामृतम् । हिमागमे यत्र हि मायता दरीरध्यासते धन्यतरा निरन्तरम् ॥ ४॥ अधिश्रयन्तो यदधित्यकावनं न शाखिनः किं परिणाहशालिनः । करम्बितास्तारकमौक्तिकश्रिया स्फुरन्ति नित्यं निशि पुष्पिता इव ॥५॥ शृङ्गाणि यस्मिन्निशि भान्त्यनारतं विचित्ररत्नप्रचुराणि कानिचित् । विसृत्वरैरूर्ध्वमुखं मरीचिभिः किर्मीरयन्त्यन्तिकतारकागणम् ॥ ६ ॥ १. अस्य श्रीविद्यावागीशकवेर्देशकालौ न ज्ञायते, परंतु समाप्तिलेखे “माधवभट्ट- तनय भट्टाचार्य इति त्रुटिपूरणस्योपलभ्यमानत्वेन भट्टाचार्यपदस्य बङ्गेषु प्रसिद्धत्वेन बदेशः कदापि भवेत. मत्तापितरौ तु सर्गसमाप्तौ रमामाया स्वयमेव स्तवीति. २. अस्य काव्यस्य पुस्तकमेकमेव शुद्धप्राय सप्तपत्रात्मक प्राचीन श्रीकृष्णचन्द्रभट्टैः काव्यमालार्थ प्रत्तमिति तेषामुपकारवणेनेऽशकास्ताँचिरायुष्टाशिषा योजयाम, ३. सर्वा इत्यर्थः सदा इसी