पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। अलमलममलोहैः श्लोकजालैः कवेस्तै- र्यदिदमखिलमेतैः क्रीतमेवारसदीयम् । पुनरपि यदि चैवं वर्ण्यते तर्ह्यहं स्यां. तदपि भवतु चेत्किं पारितोषीयमस्य ।। ६९ ॥ इत्याकर्ण्य बचो विचार्य च चमत्काराञ्चितं चेतसि श्रीदेव्याश्चकिताः प्रभोः प्रणिधयश्चक्रुस्तथा तैः परम् । भूयः किंचिदुदञ्चितस्तबकया वाचेदमन्विष्यते यञ्चोक्तं किल पारितोषिकमिति स्यात्किं तदुक्तं वद ॥ ७० ॥ स्तोत्रं गृहीतमनघं, स्तनपालक्ष्म्या शुल्कं मदीयमखिलं हि मयास्य दत्वा ।। शिष्टाहमसि मदभेदमनर्धमेतं दास्यामि तस्य परितोषणिकं सुखेन ॥ ७१ ।। एतदेव कविराजमानसे काङ्क्षितं लसति संततं किल । अन्यदेकमपि दीयते स्वतः श्रूयतामनुचरेश्वराः स्फुटम् ।। ७२ ।। इति स्तनघटस्तवं पठति यस्तु चण्ड्या मम प्रसन्नहृदयः प्रियो भवति मे सदा सूनुवत् । कविर्भवति भूमिपस्तुतवचःप्रपञ्चः क्षितौ . लभेत किल वाञ्छितं. सहदि सुन्दरीणां स्मरः ॥ ७३ ।। मदीयचरणाम्बुजे भवति भक्तिभाजां प्रभुः क्षितीशमुकुटस्थितप्रसवपूज्यपादाम्बुजः अनेकनवपद्मिनीस्तनगिरीन्द्रकान्तिच्छटा- जटालहृदयान्तरो(रः) [सद]सि. संस्थितो राजते ॥ ७४ ।। यः श्रद्धया मम घनस्तनकुम्भलक्ष्म्याः स्तोत्रं पठेत(१) किल संशृणुयात्सलोकः,, गीर्वाणवामन्यनानयनारविन्द- जालप्रभासरणिकज्जलतामुपैति ।। ७५ ।।