सामग्री पर जाएँ

पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चण्डीकुचपञ्चाशिका। विचित्रालेखाव्यं समरदसुचातुर्यकलितं दधे मातस्तं ते हृदि हृदयरावणमहम् यदीयाञ्चद्रोमावलिकपटशुण्डा शिवमनः- सरोजं तच्चक्षुः सरसि परिविश्यैव हरति ॥ ६॥ भगवति तव वक्षोजन्मरम्भास्वरूपं शुकहृदि सुफलस्य भ्रान्तिदं दर्शनेन । दिशतु मम शिवं तन्नृत्यतीशस्य चेतः कमलमिव सुधर्मा दिव्यदेशे चिरं यत् ॥ ६३ ॥ उदग्रग्रीवं तेऽविरलमसृणं नौमि गिरिजे सुवृत्तं हीरोद्यन्मणिरुचमुरोजेन्द्रतुरगम् । पयः पातुं श्लिष्टद्विरदमुखषड्वक्रवदना- न्यपश्यत्सप्तेशो गणपतिपिता यत्र सहसा ।। ६६ ।। दितिजजनविनाशकं नमस्ते भगवति कुचकूटकालकूटम् । वदिह हृदि हरस्य कण्ठलग्नं किमिति मदन्यदितीर्ष्ययावतस्थे ।। ६५ ॥ कर्पूरकुङ्कुमसुनाभिजचित्रलेखं मन्ये कुचं वलयितं जननीन्द्रचापम् । यस्योद्भवे स्मररिपोः प्रववर्ष शंभो- रानन्दजाश्रुसलिलं नयनान्बुवाहः ॥ ६६ ॥ शर्याणि ते तरुणिमोद्गमसिन्धुजातं मन्ये कुचं दरमहं वृजिनावलिघ्नम् । यं कुर्वतो निजकरे शशिशेखरस्य जातः स्मरैकजनकत्वपदेऽभिषेकः ॥ ६७ ।। धराधरसुते सुतत्रिदशपेयमाशास्महे तव स्तनजनु:सुधारसमसारसंसारहम् । स्मरामि नयनोजलज्ज्वलनजालदग्धोऽप्यसा- वनङ्ग इह यत्पदे कृतपदेन संजीवित्तः ॥ ६८ ॥