पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चण्डीकुचपश्चाशिका वक्षस्तरक्षुवरसंस्थमुमे कुचं ते तं नीलकण्ठपरिलिङ्गितभोगमीडे । यत्रेश्वरस्थ मनसस्तव रूपमेवे- त्याकल्पकल्पनमभूत्रविलोकनेन ॥ १९ ॥ घने वक्षोजं ते नव(न) वहिरण्याकृतिधरं नुमस्तं प्रह्नादावलिजनकमद्रीश्वरसुते । यदीयाभोगेऽस्मिन्ननुपमनस्वालिव्रणततिः स्फुरत्याकल्पं श्रीगलकपटकण्ठीरवकरैः ।।५० ।। वर्धिष्णुर्बलिमस्तकस्थितपदो वक्षःकृतश्रीः सुखं कुर्यान्नस्तुहिनावनीधरसुते वक्षोजविष्णुस्तव । विष्णुः शंभुह्रदीति वाक्यममलं सत्यं विधातुं स्वयं यस्तूर्णे कृतसंस्थितिर्विजयते तस्यैव हृन्मन्दिरे ।। ५१ ॥ मनस्तिमिरशान्तये प्रतिपदं कुचार्कद्वयं भवानि तव चिन्त्यते हृदयदेववतर्त्मस्थितम् । विकासयति संततं शिवमनःसरोजं परं यदेव दिवसे कथं व्यथयतीह कोकानहो ।। ५२ ।। स्मरान्तकरवल्लभे तव पयोधरश्रीफल- द्वयं स्मरति यो जनः स भवतीह सच्छ्रीफलः । इतीव किल बोषयन्स्मृतभवत्कुच्चश्रीः खयं समुद्रमथने पपावपि गरं हरः श्रीफलः ।। ५३ ।। स्मृता तव कुचद्वयीं तुहिनशैलबाले हर- त्यसावधभरं भवप्रियतमे नृभिः कैरपि । इतीव हृदि तां दधौ विधिशिरोविभेदोद्भवं प्रचण्डवृजिनावलीकवलितः कपाली ध्रुवम् ॥ ५४ ॥ उचैरुच्चैः पदं या नयति गुरुतरं वर्धयत्येव भोग भूभृत्सत्तां तनोति क्षितिधरतनये त्वत्कुचश्रीः श्रिये नः ।