पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चण्डीकुचपश्चाशिका ! पादारविन्दस्य पुरंदरोऽपि सेवां विधातास्म्यहमेव देव्याः नार्हस्त्त्वमस्मिन्निति वज्रपाणिर्व्याक्षिप्यते यत्र गणैर्विचित्रम् ॥ ७ ॥ बिडौजसि पदाम्बुजे निविडतेजसि त्र्यम्बक- स्त्रियाः प्रणतिमीप्सितप्रतिपदाप्तये निर्जरैः । हरावपि हरे विधौ प्रणतिकर्मकार्मीणके जयाम्ब जगदम्बिके जयजयेति यत्र ध्वनिः ॥ ८॥ तत्रैकदा निखिललोकचरित्रविद्भिः संप्रार्थिता भगवती प्रणिधीनवर्गैः । विज्ञाप्यमस्ति किमपीति रहस्यमस्म- दृग्यायिनः कविवरस्य कृतेर्विचित्रम् ॥ ९ ॥ किं कुङ्कुमोऽस्ति कलितामरभोज्यवीची- सारप्रसारवचसां प्रमुखः कवीनाम् । यत्काव्यमन्यकवितां विधुनोति जीर्णां जायामिवाभिनवमुग्धवधूस्तनश्रीः ॥ १०॥ असह्यभरसह्यभूधरमणौ महाराष्ट्र के महाबलजटाट्यनिष्प्रथितकृष्णवेणी धुनी। तदम्बुलहरीप्लुता जयति वाञिसंज्ञा पुरी स लक्ष्मणकवीश्वरो वसति तत्र वृत्या स्वया ॥ ११ ॥ वेणीमाधव एवं यस्य जनकः प्रख्यातकीर्तिस्तथा राधा यज्जननी सती गुणवती रामोऽपि यत्सोदरः अत्रिर्गोत्रपुमांश्च यस्य कविता चेतोहरा सामगो- पाह्नो यः किल राजते चरणयोर्देव्या भवान्याः खयम् ॥ १२ ॥ यस्य गुरुयों जातो दण्डकराभिन्नपर्वतान्वयतः । रघुनाथमन्दराद्रिर्मथितुं तर्कादिशास्त्रचयजलधिम् ॥ १३ ॥ स: त्वस्मत्पदपङ्कजस्फुरदमन्दानन्दसंदोहद- स्यन्दन्मञ्जुमरन्दसुन्दरमधुव्यालोलरोलम्बकः । नवःगु