पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। दोषागमोऽयमतिसंनिहितो यदस्मि- न्कान्तिर्न तेन मधुना गमदं त्वमीषाम् ।। ९८ ॥ अन्येऽयीह लसन्ति किं न कुसुमंश्रेणीसमृद्धश्रिय- स्ते ते चम्पककाञ्चनारवकुलाशोकादयो भूरुहः । हे माकन्द तथापि भेदविदुषामिन्दिन्दिराणां मनः सान्द्रानन्दमहर्निशं रसवति त्वय्येव विश्राम्यति ॥ ९९ ।। यजातोऽपि चतुःपथेत्र विषये निःशाखिभूमण्डले शाखाभिर्निविडाभिरुन्नततरच्छायोऽसि यत्त्वं पुनः । तं न्यग्रोधतरो सहस्व बहलच्छायाभिलाषाय त त्पान्थानामुपरोधखेदमधुना नैदाघमध्यंदिने ॥ १० ॥ विश्वेषां त्रिदिवौकसामपहरन्नार्ति हृदामन्वहं यद्यप्याकुल एव तिष्ठति भवाजानाम्यहं तत्त्वहो । हंहो कल्पतरो परोपकृतये सृष्टोऽसि बद्वेधसा तत्त्वत्तोऽहमपीप्सितामुपकृतिं किंचित्समीहेतमाम् ॥ १०१ ।। तिष्ठामों विपिने सरःसु सलिलं स्वैरं पिबामस्तृणा- न्यद्मो यद्यपि सर्वतो भयपराधीनाश्च वर्तामहे । निर्बीजं प्रहरन्ति हन्त तदपि व्याधा इमेऽस्मान्मृगा- नीदृश्येव विधातृनिर्मितिव(र)तः किं कुर्म एते वयम् ।। १०२ ।। वन्या रोहणभूरिय सहजतो यस्यां मणिश्रेणयः पर्यन्तेषु लुठन्त्यकुण्ठितरुचिव्यालिप्तदिग्भित्तयः । किं त्वस्याः पुनरन्य एव महिमा श्लाघ्यः समन्तान्मणी- न्यो गृहाति निजेच्छयैव सरसं गृहातु ना संमतिः ॥ १०३ ॥ मातघ्गाश्चलताप्यतस्त्वमपि हे शार्दूल दूरं ब्रज त्वं चान्यत्र वराह निःसर पुरो यावस्थितं तत्स्थितम् । सोऽयं दीर्घकरीन्द्रकुम्भनखरक्रोडस्थमुक्तावली- भासा दन्तुरवन्दिशो निविशते पञ्चाननः कानने ॥ १०४ ॥