पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अन्यापदेशशतकम् स्थाने स्थाने विकचकमलश्रेणिगुञ्जद्विरेफा न भ्राजन्ते किमिह सलिलोदीर्णरागास्तडागाः उत्प्लुत्यायं तदपि कुधियां दर्दुराणां समूहः कस्मात्कूपे निपतति वयं तत्र बीजं न विद्मः ॥ ९२ ॥ चेदेकदा न सरसीषु न वा नदीषु वारीण्यवाप दुरवग्रहदूषितासु। तत्किं तृषार्तिविभवाकुलितोऽपि तोय- पानाय कूपमनुधावति वारणेन्द्रः ।। ९३ ॥ नास्मै हस्तिपते प्रसारय कर कूमाय तृष्णातुरो भावी नैव तव प्रसारितकरस्याप्यम्बुलाभोऽप्यतः । द्वित्राणीह दिनानि धेहि हृदये धैर्य भविष्यन्त्यमी द्राग्धारामिरितस्ततो जलमुचां पूर्णास्तु पद्माकराः ॥ ९४ ॥ किं गर्वमुद्वहसि कच्छप गाधतोये पद्माकरे समवहेलितदिव्यकूर्मः स्यादेष चेत्पुनरवग्रहदोषशुष्क- स्तत्रावधारय विधिं निजजीवनस्य ॥ ९५ ॥ निदाधे छायायै तरणिकिरणोत्तापिततनु- र्वटं यावद्विन्ध्येऽनुसरति समृद्धं करियुवा । तथा तुङ्गश्चायं दवदहनकीलैः कवलितो. यथाभूदामूलं दहनमहसा भस्मनिचयः ॥ ९६ ॥ यदृच्छा जाताभूदुपवनतटे काचन शमी समृद्धिं योऽधानाधिकृतपुरुषैः प्रापि कृपया । तथाकस्माद्यस्यां हुतभुगुदियायान्तरगतो यथाभूदासन्नद्रुमनिवहदाहाय कुशला ॥ ९७ ॥ संतोषयाह्नि मकरन्दभरेण भृङ्गा- नम्भोज संपदि वरो हि परोपकारः