पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला उच्चैर्विरौति परितो यदि सारमेय- स्तस्मिन्भवन्ति किमु केऽपि कृतावधानाः । धीरं ध्वनत्यवनिभृत्कुहरे हरीन्द्रो. दिग्दन्तिनां सपदि शुष्यति दानधारा ।। ८५ ।। ध्वनति मधुरमम्भोमुक्शरद्येष भावी झटिति जलनिपातोऽपीत्यनन्दकुमुद्वान् । तदिह पुनरनेनाकारि येनास्य जाता रुचिरपि हिमरश्मेर्दुर्लभा सैव वृष्टिः ॥ ८६ ॥ कतिविधा विलसन्ति मधुप्लुताः कुसुमभारनता न लता बने । कमलिनीविरहव्यथितो रतिं वितनुते किमु तासु मधुव्रतः ।। ८७ ॥ नैवासन्कति सन्ति नैव कति वा के के न वा भाविनो राजानो जनकस्य जातु किममी कर्तुं तुलामीशते । सीताकल्पलताप्रतिग्रहमिह क्षोणीभुजामग्रतः स्वस्तीयुक्तवते त्रिलोकपतये रामाय योऽयं ददौ ॥ ८८ ॥ रे हंस संचर सरोरुहवृन्दमध्ये त्वं चापि चक्र चर चंक्रमणं ततः किम् । योऽन्तर्निगूढमकरन्दरसोऽस्य हृद्यो गृह्णाति तं परमसौ रसिको द्विरेफः ॥ ८९ ॥ बन्ध्ये किमन्ध शुक सीदसि काश्चनारे पुष्पश्रिये पटुरसौ न फलागमाय । उड्डीय गच्छ फलितं तरुमन्यमाशु भ्रातर्न चेत्पुनरुपेष्यति तेऽनुतापः ॥ ९० ।। एधन्तां त्वयि पीनमीननिवहग्रासैर्वका निर्भरं पङ्केरुट्फलमूलशैवलगणानश्नन्तु कारण्डवाः । अन्ये चापि चिरं चरन्तु विहगाः स्वच्छाश्च पद्माकर भ्रातर्या पुनरभ्युदेति सुषमा हंसैस्मीभिर्न सा ॥ ९१ ।।