पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अन्यापदेशशतकम् ।

उच्चैरुत्पथगा नदी: प्रकुरुषेऽनच्छं च नीराशयं पन्थानं मलिनीकरोषि परुषं मौखर्यमालम्बसे । प्रावृष्येव कियन्त्यहान्यधिकृतस्त्वं वारिदैवं क्रिया नो जाने चिरमेषि चेदधिपतां स्यात्कस्तदोपद्रवः ॥ २१ ॥

कान्तिः काञ्चनरूपदर्पदमनी सौरभ्यमभ्याहतं मध्यं चापि न धूलिधूसरतरं रोचिष्णुरुच्चैः स्थितिः । सर्वे विश्वविलक्षणास्तव गुणाः किं चम्पकैतावता नो चेत्त्वय्यनुरज्यते क्षणमपि क्षीणोऽपि पुष्पंधयः ।। २२ ।।

का संबन्धो यदभिरमते वीक्ष्य मेधं मयूरी कैवासत्तिर्यदमृतरुचौ सानुबन्धा चकोरी। को वा हेतुः पतति परितो यत्कृशानौ पतङ्गः प्रायेणैवं विधिपरवशा प्राणिनां चित्तवृत्तिः ॥ २३ ॥

मन्दारो विविदे व्यलोकि बकुलं संशीलितश्चम्पकः पर्यालोचनयावधारितमिदं वन्द्यस्तु चाम्पेयक: येनैकेन विधीयते मधुभराकृष्टयालिमालागरु- द्वातोद्भुतपरागसौरभभरैरामोदिता मेदिनी ॥ २४ ॥

कुन्दं वारिभिरुक्ष यच्छ सुमना(नो)मूले मृदं यूथिका- पर्यन्ते रचयावृतिं कुरु मुहुर्मल्लीतले कर्षणम् । मालाकार विशेषतः पुनरसौ सेव्यो रसालस्त्वया सर्वेषामुपयोगिनी फलवती वृद्धिर्यदस्यैव हि ॥ २५ ॥ दत्त्वा स्कन्धतले पदं विनमितां कृत्वा तु शाखाशिखां सर्वेषां कुसुमावलीमबचिनु स्वच्छन्दमुर्वीरुहाम् । किं त्वस्मिन्वनपाल केतकतरौ यत्नैर्निदध्याः करौ स्यातां कण्टककोटिमिः कवलितौ नो तावदेतौ यथा ॥ २६ ॥

आरोहो निशिताङ्कुशेन कतिधा कुम्भं भिनत्ति क्रुधा पश्चाद्वंशचयैरयोमयमुखैर्निघ्नन्ति चान्ये जनाः ।