पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईश्वरशतकम् । भाविदासहिते साररसा ते हि रमामयः । यममारतनुत्यागगत्या नुत सदा विभा ॥१०३ ।। हे रमामय लक्ष्मीमय तव संबन्धिनी विभा सातिशया दीप्तिः भाविदासेभ्यः भा- विभ्यो दासेभ्यो हिते सारः उत्कृष्टो रसों [यस्याः सा यममारयोः तनुत्यागेन या गति- र्विच्छित्तिस्तया हेतुभूतया : सर्वैनुत स्तुत ॥ भद्रकावर्तबन्धः ॥ १०३॥ सादासन्ना रिपूणां परमुखसुरपक्षोतितस्वस्थिरासा सारास्थिस्वच्छभावा विभवनवभवित्राणभन्योत्तमासा । सामात्तव्योमरूपा तनुरमरनुतत्वात्पुरस्ताद्विलासा सालाद्विस्तारलाभातियजन जयति स्वःप्रसन्ना सदासा ॥ १०४ ॥ भद्रकावर्तबन्धः अष्टदलपद्मबन्धः, षोडशदलश्च हे अतियजन, तव तनुर्जयति । अतिशयितानि सर्वोत्कृष्टानि यजनानि यस्य ता. दृश । सर्वयज्ञेषु रुद्रस्य मुख्यत्वात् । कीदृशी । रेपूणां सादे विनाशे आसन्ना सादा- सन्ना । पुनः कीदृशी । परमुखे सुरपक्षे च तत्स्वन्तेन (१) स्थिरासा । सारः अस्तिः (स्थि) स्वच्छभावो यस्याः तथा विभवेन ऐश्वर्येण नवभविनां नूतनसंसारिणां त्राणे रक्षणे भव्या उत्कृष्टा अपरुषा ! सामात्ता(?) आत्तं व्योमरूपं यया । अमरनुतत्वात् सर्वदेवस्तुतत्वात् । पुरस्तान्निहिता विलासा यस्याः । तथा सालाद् देवदारोरपि स्तृता, सालप्राशुः । स्वः देवानां प्रसन्ना । सह दासैर्वतते या सदासा १३ १०४ ॥ भव जलवायुनभोजनरुचिकर- म(मृ)दनलराजरमा(सा)मयदेह । अव मामतिमोहकमारसहर हर नम इह ते पुरभयदेह ॥ १०५ ॥ हे भव, जलवायुनभोजनरुचिकर, म(मृ)दनलराज र[सा) मयदेह । जलधि (लादि) रसान्तानां चार्थे द्वन्द्वः । तेषामष्टानां मूर्तिरूपा या प्रकृतिस्तन्मयदेह । जनशब्दो यज- मानवाचकः । तद्रूपशरीर । त्वं मामव रक्ष । यतः कीदृश । अतिमोहकोऽयं मारसो लक्ष्म्यभिलाषः तन्निवारक । हे हर, इह सर्वत्र भुवनान्तरे ते तुभ्यं नमः । तथा कथं- भूतः । पुरभयदेह, पुराणों मयं ददाति । तथा ईहा यस्य तत्संबोधनम् । इति संस्कृत- कश्मीरापभ्रंशाम्या श्लेषः ॥ १०५३ "विविधधररसासाभ भव्य व्यसासा- धुधुततनन सासादद ज्ञज्ञ सासा । मालिनीवृत्तन्धि वृत्तान्तरमेततू.